________________
जीवसमासे हैमीवृत्ती. क्षेत्रंद्वारे
॥१०१॥
तु देवकुरूत्तरकुरुगजादीनां षड् गव्यूतानि २० । तदेवं 'जलथलखहसम्मुच्छिमेत्यादिगाथापञ्चकेन विंशतेरपि पञ्चेन्द्रियतिर्यग्भेदानां शरीरमानमुक्तं, एतच्च ग्रन्थान्तरैः किञ्चित् क्वचिद् विसंवदति, तथाहि अत्र विंशतिभेदेषु मध्ये दश भेदाः पर्याप्तानां दश पुनरपर्याप्तानां तत्र प्रज्ञापनानुयोगद्वारादिग्रन्थेषु कयापि विवक्षया दशानामप्यपर्याप्तानां जघन्यत उत्कृष्टतश्चाविशेषेणागुलासंख्येयभाग एवं शरीरप्रमाणमुक्तं, प्रस्तुतग्रन्थे तु 'जलथलखहसम्मुच्छिमे' त्यादिप्रथमगाथायां पञ्चानां सम्मूर्च्छजापर्याप्तानां प्रत्येकमुत्कृष्टतो वितस्तिः शरीरमानमुक्तं पञ्चानां तु गर्भजापर्याप्तानां ' जलथलगन्भअपजत्ते ' त्यादिचतुर्थगाथायां प्रत्येकमुत्कृष्टतो धनुःपृथक्त्वं देहप्रमाणमावेदितं तदत्र तत्त्वं केवलिनो बहुश्रुता वा विदन्ति, पर्याप्तावस्थायां (ये) योजनसहस्रादिमानवपुषो भवन्ति तेषामप्यपर्याप्तावस्थायामुत्कृष्टतोऽप्यगुलासंख्यभाग एव शरीरमानं प्रज्ञापनादिष्वभिहितं, एतच्चदुरवगमं यदपीह प्रस्तुतग्रन्थे चतुर्थगाथायां ' खहगन्भया उ उभए' इत्यनेन गर्भजखचराणां पर्याप्तानामिवापर्याप्तानामप्युत्कृष्टतो धनुः पृथक्त्वं मानमुक्तं तदपि पृथक्त्वस्य बहुभेदत्वेऽपि नातिपेशलतयाऽवगच्छामः, अपरं च सम्मूर्च्छजपर्याप्तचतु:पदलक्षणानां स्थलचराणां प्रज्ञापनानुयोगद्वारादिषु गव्यूतपृथक्त्वमुत्कृष्टं देहमानमभिहितं प्रक्रान्तग्रन्थे तु प्रस्तुतविचारचतुर्थगाथायां पोडशेऽङ्कस्थाने तेषामेव धनुःपृथक्त्वमुत्कृष्टं शरीरप्रमाणमाख्यातमित्यत्रापि तत्त्वमतिशयिन एवं जानन्तीति गाथार्थः ॥ १७५ ॥ एकेन्द्रियाणां मध्ये प्राग्वनस्पतीनामेव शरीरमानमुक्तम्, इदानीं पूर्वमनुक्तानां पृथिव्यादीनां शरीरमानमाहअंगुल असंभागो बायरसुहुमा य सेसया काया । सब्वेसिं च जहणणं मणुयाण तिगाउ उक्कोसं ।। १७६ ।।
पर्याप्त गर्भज
जलचरस्थलचर
मानं
॥ १७१ ॥