________________
अजीवद्रव्य मानं
क्षेत्रद्वारे
जीवसमासे कायः कालश्चेति, इह चैतेषां प्रमाणं द्रव्यतः प्रदेशतश्च चिन्त्यते, तत्र धर्माधर्माकाशास्तिकायलक्षणानि त्रीण्यजीवद्रव्याणि हैमीवृत्ती.
'एक्कयाई' ति द्रव्यतश्चिन्त्यमानानि प्रत्येकमेकद्रव्यसंख्यानि भवन्तीत्यर्थः, 'अद्धा' कालस्तद्रूपा ये समयाः परमाणुख्यणु
कादिस्कन्धरूपाश्च ये पुद्गलास्ते द्रव्यतो निरूप्यमाणाः प्रत्येकमनन्तानि द्रव्याणि भवन्ति, अद्धासमयद्रव्याणां चानन्त्यमतीता॥१६५॥
नागतानामपि कथंचित्सत्त्वतो मन्तव्यम् । अथैषां पञ्चानामप्यजीवद्रव्याणां प्रदेशतः प्रमाणं चिन्त्यते-'दुन्नी' त्यादि, द्वे धर्मा18 धर्मास्तिकायलक्षणे अजीवद्रव्ये प्रत्येकमसङ्खथेयप्रदेशात्मके भवतो, नानन्तप्रदेशात्मके, तयोर्लोकमात्रवृत्तित्वात् , लोकस्य चासंख्येय
त्वादिति, शेषाणि त्वाकाशपुद्गलास्तिकायाद्धासमयलक्षणानि त्रीण्यपि द्रव्याणि प्रत्येकमनन्तप्रदेशात्मकानि भवन्ति, नन्वलोकाकाशस्यानन्तत्वादनन्तप्रदेशात्मकत्वं युक्तमेव, पुद्गलास्तिकायस्यापि द्वन्यणुकत्र्यणुकचतुरणुकाद्यनन्तानन्ताणुकपर्यन्तानन्तस्क
न्धात्मकत्वात् प्रतिस्कन्धं चानेकप्रदेशसम्भवात् केवलपरमाणूनां च तत्रानन्तानां भावात् संगतमेवानन्तप्रेदशात्मकत्वं, अद्धासमहै यानां त्वतीतानागतवर्तमानस्वरूपाणां सर्वेषां द्रव्यत्वेनानन्तरमेवोक्तत्वात् के तत्र प्रदेशा यैरनन्तप्रदेशात्मकत्वमिहोच्यत इति
चेद् , युक्तमुक्तं, किन्तु यदा काललक्षणं सामान्येनैकं द्रव्यं विवक्ष्यते तदा तदपेक्षया द्रव्यत्वेनोक्ता अप्यतीतादिस्वरूपाः समयाः प्रदेश| त्वेनापि गृह्यन्ते, न हि भिन्ननिमित्तापेक्षया एकस्य द्रव्यत्वप्रदेशत्वे भवन्ती विरुद्ध्येते, अनन्तधर्मात्मकत्वाद्वस्तुन इति, अथवा ये द्रव्यत्वेनाभिहिता अनन्ताः समयास्ते प्रत्येकमनन्तानन्तशो विभिद्यन्ते, तथाहि-अनन्तानन्तान्येकेन्द्रियादीनि तावज्जीवद्रव्याणि अनन्तानन्तानि च परमाणुद्वथणुकादीनि पुद्गलद्रव्याणि, एतान्यपि क्षेत्रावगाहभेदतः एकसमयस्थित्यादिकालभेदतः एकगुणका| लकत्वादिभावभेदतश्चानन्तभेदानि, एतैश्च सप्रभेदैः सहकैकं समयद्रव्यं सम्बध्यते, तत्सम्बन्धाच्च प्रत्येकमनन्तानन्तान्
स्कल
॥१६५॥