________________
जीवसमासे हैमीवृत्तौ.
जीवद्रव्यो. पसंहारः
॥१६४॥
सहस्राण्युत्कृष्टतस्त्वष्टादश सागरोपमकोटीकोटयः परिहारविशुद्धिकचारित्रिणां जघन्यतश्चतुरशीतिवर्षसहस्राण्युत्कृष्टतस्त्वष्टादश | सागरोपमकोटिकोटयोऽन्यत्रान्तरमुक्तमिहापि च पुरस्तादभिधास्यते, सूक्ष्मसम्परायापूर्वकरणानिवृत्तिबादरास्तु द्विविधाः-उपशमश्रेणिगताःक्षपकश्रेणिगताच, उपशान्तमोहास्तु केवलोपशमश्रेणिशिरःस्थायिनः, तत्रोपशमश्रेणेरुत्कृष्टतो वर्षपृथक्त्वं क्षपकश्रेणेस्तूत्कृष्टतः षण्मासा अन्तरमन्यत्रोक्तमिहापि च भणिष्यते, सास्वादनमिश्राणामपि जघन्यतः समय उत्कृष्टतस्तु पल्योपमासंख्येयभागोऽन्तरमिहैव वक्ष्यते इति सर्वेषामप्यमीषां राशीनां कादाचित्कोऽभावः परिभावनीयः, एतच्चेहापि ग्रन्थे पुरस्तात् प्रायः सर्व व्यक्तीभविष्यतीति गाथार्थः ॥१६५॥ तदेवं द्रव्यप्रमाणद्वारेच प्रस्तुते जीवद्रव्यप्रमाणमभिधायोपसंहरनाह
एवं जे जे भावा जहिं जहिं हंति पंचसु गईसु । ते ते अणुमान्जित्ता दव्वपमाणं नए धीरा ॥ १६६ ॥ ___एवमनन्तरोक्तया नीत्या ये ये भावा-जघन्यस्थितिनारकतिर्यङ्मनुष्यामरप्रथमसमयोत्पन्नसिद्धादयो जीवानामवस्थाविशेषा नारकतिर्यनरामरसिद्धिलक्षणासु पञ्चसु गतिषु मध्ये यत्र यत्र भवन्ति ताँस्तान् भावान् ' अनुमज्ज्य ' स्वबुद्धथा पर्या| लोच्य सिद्धान्तानुसारतोत्रोक्तानुसारतश्चानुक्तानामपि तेषां भावानां द्रव्यप्रमाणं 'नयेयुः' संवेदनपथं प्रापयेयुः, धी:-बुद्धि|स्तया राजन्त इति धीरा-बुद्धिमन्त इति गाथार्थः॥ १६६ ॥ तदेवं निगमितं जीवद्रव्यप्रमाणं, अथाजीवद्रव्यप्रमाणमाहतिनि खलु एक्कयाइं अद्धासमया व पोग्गलाऽणंता । दुन्नि असंखेज्जपएसियाणि सेसा भवे ऽणंता ॥ १६७ ॥ इहाजीवद्रव्याणि तावत् पूर्वोक्तस्वरूपाणि पश्च भवन्ति, तद्यथा-धर्मास्तिकायोऽधर्मास्तिकायः आकाशास्तिकायः पुद्गलास्ति
॥१६॥