________________
जीवसमासे चारित्रिणः ५ सूक्ष्मसम्परायिका ६ 'उवसम'त्ति, उपशमकग्रहणेन मोहस्योपशमयोग्याः अपूर्वकरणगुणस्थानवृत्तयः ७, मोहहैमीवृत्ती. स्योपशमकाः अनिवृत्तिवादरसम्परायलक्षणाः ८, उपशान्तमोहाश्चैते त्रयोऽपि राशयो गृह्यन्ते ९, सास्वादनसम्यग्दृष्टयः १०
मनुष्याधमिश्राः-सम्यग्मिध्यादृष्टयः ११, एते एकादशापि राशयो' भजनीया' विकल्पनीयाः, कदाचिल्लोके प्राप्यन्ते कदाचिनेत्यर्थः,
नवस्थित ॥१३॥
राशिमानं तथाहि-मनुष्यगतो गर्भजमनुष्याणां जघन्यतः समय उत्कृष्टतस्तु द्वादश मुहूर्ताः सम्मूर्छनमनुष्याणां तु जघन्यतः समय उत्कृष्टतस्तु चतुर्विशतिर्मुहुर्ता उत्पत्तिविरहकालः सिद्धान्ते प्रतिपादितः, यदा चैतस्मिन् विरहकालेशभिनवमनुष्या नोत्पद्यन्ते पूर्वोत्पन्नास्तु गर्भजापर्याप्तकाः केचिन्नियन्ते केचित्तु पर्याप्तीः समर्थयन्ते, सम्मृर्छजास्त्वन्तर्मुहर्त्तायुष्कत्वात् पूर्वोत्पन्नाः सर्वेऽपि निर्लेप्यन्ते तदा सिद्धोऽपर्याप्तकमनुष्याणां कादाचित्कोऽभाव इति, आहारकशरीरारम्भस्याप्युत्कृष्टतः षण्मासान् यावाद्विरहकालो निर्दिष्ट इति आहारकशरीरिणोऽपि कदाचिन्न सम्भवन्त्येव, तदुक्तम्-" आहारगाई लोए छम्मासं जा न हुंतिवि कयाई । उक्कोसेण नियमा एक समयं जहण्णेणं ॥१॥ जइ हुंति जहण्णेणं एकं दो तिन्नि पंच व हवन्ति । उक्कोसेणं जुगवं पुहुत्तमेत्तं सहस्साणं ॥२॥"ति, मिश्रवैक्रियकाययोगिनोऽपि ये प्रथममुत्पत्तिकाले कार्मणमिश्रक्रियकाययोगिनस्तेज विवक्षिताः, ते च नरकगतौ देवगतौ वाऽऽद्योत्पत्तिकाले प्राप्यन्ते, अनयोश्च द्वयोरपि गत्योः प्रत्येकं जघन्यतः समय उत्कृष्टतस्तु द्वादश मुहूर्ता विरहकाल उक्तो, यदभ्य
धायि- "नरयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ?, गोयमा! जहण्णेणं एकं समय उकोसेणं बारस मुहुत्ता, ॥१६॥ जा एवं देवगईवि" यदा च चैतावन्तं कालं नारकदेवाः कदाचिन्नोत्पद्यन्ते पूर्वोत्पन्नास्त्वन्तर्मुहर्त्तात् परतः सम्पूर्णवैक्रियकाययोगिनः13 । सर्वेऽपि जायन्ते तदा घटत एव मिश्रवैक्रियकाययोगिनां कदाचिदभाव इति । छेदोपस्थापनीयचारित्रिणामपि जघन्यतस्त्रिषष्टिवर्ष