________________
द्वीन्द्रियादिमानं
हैमीवृत्ती.
॥१६२॥
समयेऽपीति, एवमङ्गुलश्रेणीप्रदेशानां संख्येयभागे यावन्तः प्रदेशास्तावद्भिः समयैः सर्वमपि प्रतरं पर्याप्तकद्वीन्द्रिया अपहरन्ति, यदिवाऽगुलश्रेणिप्रदेशानां संख्येयभागरूपं खण्ड यद्येकैकस्य समर्प्यते तदा सर्वेऽपि पर्याप्ता द्वीन्द्रिया युगपदेकेनैव समयेन | सर्वमपि प्रतरमपहरन्तीति पूर्ववदत्राप्येकार्थे तिस्रो भावनिकाः, एवमपर्याप्तकद्वीन्द्रियेष्वपि निरवशेष वाच्यम्, केवलमगुलश्रेणी
प्रदेशानां संख्येयभागस्थानेऽसंख्येयभागलक्षणः प्रतिभागो वाच्यः, पर्याप्तभ्योऽपर्याप्तद्वीन्द्रियाणामसंख्यातगुणत्वात् पूर्वोक्तात् | सूक्ष्मेणैव प्रतिभागेनैतत्प्ररूपणोपपत्तेः, यथा च पर्याप्तापर्याप्तानां द्वीन्द्रियाणां प्रमाणं भावितमेवमुभयस्वरूपाणां त्रिचतुःपञ्चे|न्द्रियाणामपि प्रत्येकं भावनीयम्, इत्थं च तुल्यनिर्देशेऽप्यष्टानामप्यमीषां राशीनां परस्परमल्पबहुत्वमेवमवगन्तव्यं, तद्यथा-सर्व| स्तोकाः पर्याप्तचतुरिन्द्रियाः १, पर्याप्ताः पञ्चेन्द्रिया विशेषाधिकाः २ पर्याप्ता द्वीन्द्रिया विशेषाधिकाः ३ पर्याप्तास्त्रीन्द्रिया विशेपाधिकाः ४ पञ्चेन्द्रिया अपर्याप्तका असंख्यातगुणाः ५ चतुरिन्द्रिया अपर्याप्तका विशेषाधिकाः ६, त्रीन्द्रिया अपर्याप्तका विशेपाधिकाः ७ द्वीन्द्रिया अपर्याप्तका विशेषाधिकाः ८, इह च पञ्चेन्द्रियाणां प्रमाणं सामान्येनैवोक्तम् , पूर्व पुनश्चतसृष्वपि गतिषु | पृथक् पृथक् तदभिहितमिति न पौनरुक्त्यमाशङ्कनीयमिति गाथार्थः॥१६४॥ तदेवं नारकादिद्रव्याणां प्रायो येऽवस्थितराशयस्तेषां प्रमाणमुक्तम्, साम्प्रतं जीवद्रव्येषु येऽनवस्थितराशयः कदाचिल्लोके सम्भवन्ति कदाचित्तु न सम्भवन्ति तान् सम्पिण्ड्य दर्शयतिमणुय अपज्जत्ताऽऽहार मिस्सवेउब्वि छेय परिहारा । सुहुमसरागोवसमा सासण मिस्सा य भयणिज्जा ॥१६५॥
अपर्याप्तका मनुष्याः १ आहारकशरीरिणः २ मिश्रवैक्रियकाययोगिनः ३ छेदोपस्थापनीयचारित्रिणः ४ परिहारविशुद्धिक
॥१६२॥