________________
जीवसमासे हैमीवृचौ.
॥१६१॥
संख्याः पुनस्ते बादरपर्याप्तकोत्तरवैक्रियशरीराः वायवः प्राप्यन्त इत्याह- पल्योपमा संख्येयभागेनापहियन्ते सर्वेऽपीति, प्रतिसमयमेकैकप्रदेशापहारे क्रियमाणे यावता कालेन क्षेत्रपल्योपमासंख्येयभागो निष्ठां याति तावता कालेन वैक्रियशरीरवन्तो वायुजीवा अपि प्रति समयमेकैकापहारे क्रियमाणे सर्वेऽपि निष्ठां यान्तीत्यर्थः, क्षेत्रपल्योपमासंख्येयभागे यावन्त आकाशप्रदेशास्तावन्तो वैक्रियशरीरिणो बादरपर्याप्तवायवः सर्वेऽपि भवन्तीति तात्पर्यम्, अन्ये तु व्याख्यानयन्ति - बादरपर्याप्तवायवः सर्वेऽप्यनुसमयमुत्तरवैक्रियशरीरिणो लभ्यन्त इति, तच्चायुक्तम्, बादरपर्याप्तवायूनां समग्राणामपि लोकसंख्येयभागवर्त्तित्वेनेहैव प्राग् निर्णीतत्वादत्र क्षेत्रपल्योपमासंख्येय भागवृत्तित्वानुपपत्तेः, समग्रबादरपर्याप्तवायूनां वैक्रियशरीरस्यागमे निषिद्धत्वाच्चेति गाथार्थः ।। १६३ ।। अथ पर्याप्तापर्याप्तभेदानां द्वित्रिचतुःपञ्चेन्द्रियाणां प्रमाणमाह
इंदियाइया पुणपरं पज्जत्तया अपज्जत्ता । संखेज्जा संखेज्जेणऽङ्गुल भागेणऽवहरेज्जा ॥ १६४ ॥
'द्वीन्द्रियादय' इति आदिशब्दात् त्रिचतुःपञ्चेन्द्रियपरिग्रहः, ततश्च पर्याप्तापर्याप्तस्वरूपा द्वित्रिचतुःपञ्चेन्द्रियाः पुनः प्रत्येकं प्रतरमपहरन्ति, कियता प्रतिभागेनेत्याह- यथासंख्यं पर्याप्तका अंगुलसंख्येयभागेन, अपर्याप्तकास्त्वं गुलासंख्येयभागेनेति, इदमुक्तं भवति - अंगुल श्रेणीप्रदेशानां संख्येयभागेन घनीकृतलोकप्रतरस्य भागो हियते, तेन च भागहारेण यावत् प्रतरक्षेत्रखण्डं लभ्यते तत्र यावन्तः प्रदेशास्तावन्तः पर्याप्तद्वीन्द्रियाः समुदिता भवन्ति, अथवा सर्वेऽपि पर्याप्तद्वीन्द्रियाः प्रथमसमये प्रत्येकमेकैकं प्रतरप्रदेशमपहरन्ति एवं द्वितीयसमये सर्वेऽपि प्रत्येकमकैकं प्रतरप्रदेशमपहरन्ति एवं तृतीयसमयेऽपि चतुर्थ -
4
वैक्रियवायुमानं
द्वीन्द्रिया
दि मानं
॥१६१॥