SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती. ॥१५९॥ 924399X99X बादरादिमानं संख्येयभागवतिष्वसंख्येयप्रतरेषु यावन्तः प्रदेशा भवन्ति तावत्संख्या बादरपर्याप्तवायवो भवन्तीति । एतेषां चोक्तप्रमाणानां बादर- पयोप्तानां पृथिव्युदकतेजोवायुप्रत्येकवनस्पतीनां परस्परमल्पबहुत्वमित्थं भावनीयं-सर्वस्तोकाः बादरपर्याप्ततेजाकायिकाः प्रत्येकवनस्पतिकायिका असंख्यातगुणाः पृथ्वीकायिका असंख्यातगुणाः अप्कायिका असंख्यातगुणा वायवोऽसंख्यातगुणा इति, | यद्येवं स्तोकत्वाद् अग्निकायिकानामेव कस्मात् प्रथमं प्रमाणमिह नोक्तमिति न प्रेय, विचित्रत्वात् सूत्रकारप्रवृत्तेरिति गाथार्थः ॥१६१ ॥ तदेवं बादराणां पर्याप्तपृथ्व्युदकतेजोवायुप्रत्येकवनस्पतिलक्षणानां पञ्चानामप्येद्रियाणां प्रमाणमुक्तम्, अर्थतेषामेवापर्याप्तानां सम्बन्धी एको राशिरनभिहितप्रमाणोऽवशिष्यते, द्वितीयस्तु सूक्ष्माणां पर्याप्तानां पृथिव्युदकतेजोवायूनां राशिः तृतीयस्त्वमीषामेवापर्याप्तानां राशिरवशिष्यते, एते च त्रयोऽपि राशयः प्रत्येकशरीरिणः, साधारणानां तु वनस्पतीनां सूक्ष्माणां बादराणां पर्याप्तानामपर्याप्तानां च सम्बन्धिनश्चत्वारोऽपि राशयोऽनुक्तप्रमाणा अवशिष्यन्त इत्यमीषां सप्तानामपि राशीनां प्रमाणमभिधित्सुराहसेसा तिपिणवि रासी वीसु लोया भवे असंखेजा । साहारणा उ चउसुवि वीसुं लोया भवेऽणंता ॥ १६२॥ प्रत्येकशरीरिणामेकेन्द्रियाणां तावच्चत्वारो राशयः सम्भवन्ति, तद्यथा-बादराः पर्याप्ता अपर्याप्ताश्च, सूक्ष्माः पर्याप्ता अपर्यासाच, तत्र बादरपर्याप्तलक्षणस्यैकस्य राशेः प्रमाणमुक्तम्, उक्तशेषास्तु त्रयोऽपि राशयो विष्वक्-पृथगसंख्येया लोका भवन्ति, असं-13 | ख्येयेषु लोकाकाशेषु यावन्तः प्रदेशास्तत्ममाण एकैको राशिर्भवतीत्यर्थः, इत्थं समाननिर्देशेऽपि त्रयाणामप्यमीषां राशीनां न AASAROSAROKARNERALEKAR 9 1
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy