SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती. ।। १५८।। भवन्तीत्यर्थः, इति गाथार्थः ॥ १६० ॥ आह - नन्वसंख्यातैरावलिकावर्गैरावलिकायास्तावद् घनो भवति, हीनोऽधिकव वाऽसौ भवति, अतोऽसंख्याता आवलिकावर्गा इत्येतावन्मात्रेण बादरपर्याप्तानलानां निश्चितं प्रमाणं न ज्ञायते, लोकस्यापि संख्याततमे भागे कियन्तोऽपि प्रतरा भवन्तीति न विद्म इत्याशङ्कय विशेषिततरममीषां प्रमाणमाह आवलिवग्गाऽसंखा घणस्स अंतो उ बायरा तेऊ । पज्जत्तबायराणिल हवन्ति पयरा असंखेज्जा ॥ १६९ ॥ ये बादरपर्याप्ततेजः कायिकाः प्रागसंख्येया आवलिकावर्ग उक्तास्ते आवलिकावर्गा घनस्यान्तः मध्ये द्रष्टव्याः, इदमुक्तं भवतिअसंख्येया आवलिकावर्गास्तावन्त एव ग्राह्या यावद्भिरावलिकायाः संबन्धी घनो न पूर्यते, अस्य चार्थस्य विनेयजनानुग्रहार्थमसत्कल्पनया प्रतीतिरुत्पाद्यते, तद्यथा - असंख्येयसमयात्मिकायामध्यावलिकायां किल दश समयाः परिकल्प्यन्ते, तद्वर्गे च शतं भवति, एते चासंख्याता वर्गाः कल्पनया किल दशापि भवन्ति, परमेतावन्तो न कल्प्यन्ते, एतावद्भिरेतैरावलिकासम्बन्धिनो घनस्य सम्पूर्णस्य सम्भवात्, तथाहि आंवलिकायां दश समयाः परिकल्पिताः, तेषां च घनं सहस्रं भवति, दशभिरपि च तद्वर्गैः सहस्रं सम्पद्यत इति तद्ग्रहणे घनस्य सम्पूर्णता जायते, तस्मादष्टौ नव वा आवलिकावर्गा असंख्येयत्वेन कल्प्यन्ते, तथा च सति कल्पनया अष्टशतप्रमाणा नवशतप्रमाणा वा सद्भावतस्त्वसंख्येया बादरपर्याप्ततेजः कायिकाः सिद्धा भवन्ति, ततश्चावालिकाघनस्य मध्यवृत्तिता भवति, एवं च सत्येक आवलिकावर्गः किञ्चिन्न्यूनावलिकासमयराशिना गुणिते बादरपर्याप्ततेजः कायिका भवन्तीत्युक्तं भवति । पर्याप्तबादरवायवः पुनरसंख्येयाः प्रतरा भवन्ति, इदमुक्तं भवति प्रागुक्ते लोकस्य संख्येयभागे असंख्येयाः प्रतरा बोद्धव्याः, ततस्तेषु लोकस्य एकेन्द्रिय भेदाल्प बहुत्वं ।। १५८।।
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy