SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पर्याप्ताग्निवायुमानं 2-964 जीवसमासे व्यवस्थापयन्त्येवं तृतीयेऽपि समये चतुर्थेऽपि यावदगुलासययभागे रूपे नमःप्रदेशश्रेणिखण्डे यावन्तः प्रदेशास्तावत्सङ्ख्यैः हैमीवृत्तो. समयैस्ते सर्वमपि प्रतरमपहरन्ति, अथवाऽङ्गुलासङ्खयेयभागस्वरूपे नमःप्रदेशश्रेणिखण्डे यावन्तः प्रदेशास्तैः सर्वस्यापि प्रतरप्रदेशराशेर्भागो ह्रियते, एतद्भागहारलब्धे च प्रतरप्रदेशखण्डे यावन्तः प्रदेशास्तावन्तः सर्वेऽपि बादरपर्याप्तपृथ्वीकायिका ॥१५॥ भवन्ति, यदिवा बादरपर्याप्तपृथ्वीकायिकानां सर्वेषामपि प्रत्येकं यद्यंगुलासङ्खथयभागरूपं प्रतरप्रदेशखण्डं समर्प्यते तदा युगपदेकेनैव समयेन ते सर्वमपि प्रतरमपहरन्तीति तिसूणामपि प्ररूपणानामेक एव तात्पर्यार्थः, यथा चैषा बादरपर्याप्तपृथ्वीकायिकानां प्रमाणभावना कृता तथा बादरपर्याप्ताप्कायिकानां वादरपर्याप्तप्रत्येकवनस्पतिकायिकानां च कर्त्तव्या, समानप्रमाणतया गाथायां निर्दिष्टत्वाद् , इत्थं च समानप्रमाणनिर्देशेऽप्यंगुलासङ्खयेयभागस्यासङ्खथात भेदत्वात् स्वस्थाने परस्परममीषामल्पबहुत्वं द्रष्टव्यम् , तद्यथा-चादरपर्याप्तप्रत्येकवनस्पतिभ्यो बादरपर्याप्तपृथिवीकायिका असङ्खचातगुणास्तेभ्योऽपि बादरपर्याप्ताप्कायिका असंख्यातगुणा इति गाथार्थः ॥ १५९॥ अथ बादरपर्याप्तानां तेजःकायिकवायुकायिकानां प्रमाणमभिधित्सुराह पज्जत्तबायराणल असंखया हुंति आवालियवग्गा । पज्जत्तवायुकाया भागो लोगस्स संखेज्जो ॥ १६० ॥ बादरपर्याप्ततेजःकायिका भवन्ति, कियन्त इत्याह-असंख्यया आवलिकावर्गाः, आवलिकायां यावन्तः समयास्तेषां वर्गः || क्रियते, तस्यां तेषु चासंख्यातेषु वर्गेषु यावन्तः समयास्तत्प्रमाणा बादरपर्याप्ततेजःकायिका भवन्तीत्यर्थः, बादरपर्याप्तवायवः | पुनर्लोकस्य संख्यातभागे भवन्ति, संख्याततमे लोकाकाशस्य भागे यावन्तो नभ प्रदेशास्तत्प्रमाणाः सर्वेऽपि बादरपर्याप्ता वायवो ॥१५७॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy