________________
जीवसमासे हैमीवृत्ती.
॥१५६॥
प्रमाणमनन्तरमभिहितमिति तदिह नोक्तमिति । अथ वैमानिकदेवानां विशेषिततरं प्रमाणमभिधीयते, तत्र सौधर्मेशानदेवानामनन्तरगाथायामपि तदुक्तम्, अतः सनत्कुमारादिदेवानां गाथोत्तरार्द्धपर्यन्तात् पश्चानुपूर्व्या तदभिधीयते, तद्यथा- 'चउक्कं च देवेसु' ति श्रेणेश्वतुर्थं यद्वर्गमूलं तत्प्रदेशराशिप्रमाणा वैमानिकदेवेषु मध्ये सनत्कुमारमाहेन्द्रयोर्देवाः प्राप्यन्ते, ब्रह्मलोके तु पञ्चमवर्गमूलप्रदेशराशिप्रमाणा लान्तके तु सप्तमवर्गमूलप्रदेशराशिप्रमाणाः महाशुक्रे तु नवमवर्गमूलप्रदेशराशिप्रमाणाः सहस्रारे पुनर्देवा एकादशश्रोणिवर्गमूले यावन्तः प्रदेशास्तावन्तो लभ्यन्त इति, आनतप्राणतादिषु तु " आणयपाणयमाई पल्लस्स असंखभागो उ " इत्यनेन विशेषिततरमपि प्रमाणमुक्तमिति नेहाभिहितमिति तावत् प्रस्तुतगाथाव्याख्यानमर्वाचीनटीकाकारकृतं दर्शितम्, अस्माभिस्त्वेवंविधस्य निर्द्धरितस्यार्थस्य संवाद आगमान्तरे क्वचिदपि नोपलब्धः, प्रज्ञापनामहादण्डकेन च सहेत्थं व्यभिचारोऽप्यापतति, तत्त्वं तु केवलिनो बहुश्रुता वा विदन्तीति गाथार्थः ॥ १५८ ॥ तदेवमुक्तं चतुर्गतिकानामपि पञ्चेन्द्रियाणां प्रमाणम् अथ तिर्यग्गतावनुक्त पूर्वाणां बादरपर्याप्तकपृथिव्यप्कायिकानां बादरपर्याप्तकप्रत्येकवनस्पतीनां च प्रमाणमभिधित्सुराह
बायरपुढवी आऊ पत्तेयवणस्सई य पज्जत्ता । ते य पयरमवहरिज्जंसु अंगुलासंखभागेणं ॥ १५९ ॥
बादरपर्याप्तकपृथिव्यप्कायिकाः प्रत्येकबादरपर्याप्तवनस्पतिकायिका श्वेत्येते त्रयोऽपि राशयः प्रत्येकं प्रतरमपहरेयुः, केन प्रकारेणेत्याह- अंगुलासङ्घयेयभागेनेति, इदमुक्तं भवति बादरपर्याप्तपृथ्वी कायिकाः सर्वेऽपि समुदिताः किलैकस्मिन् समये प्रत्येकमेकैकं प्रतरप्रदेशमपहृत्यासद्भावकल्पनयाऽन्यत्र व्यवस्थापयन्ति, पुनर्द्वितीयेऽपि समये प्रत्येकमेकैकं प्रतरप्रदेश मपहृत्याऽन्यत्र
बादर पृथ्व्यन्वनस्पतिमानं
॥१५६॥