________________
जीवसमासे हैमीवृत्तौ .
॥१५२॥
खण्डं लभ्यते तत्र ये नभः प्रदेशास्तावत्प्रमाणाः सर्वेऽपि व्यन्तरा देवा भवन्तीति, अथवा यथोक्तभागहारप्रमाणं प्रतरक्षेत्रखण्डं यद्येकैको व्यन्तरदेवोऽपहरति तदा सर्वोऽपि प्रतरस्तैर्व्यन्तरदेवैरेकहेलयैवापहियते इत्येक एवार्थः । तथा षट्पञ्चाशदधिकागुलशतद्वयप्रमाणायामेकप्रादेशिक्यां पङ्क्तौ यावन्तो नभः प्रदेशा भवन्ति तैः सर्वैः प्रतरप्रदेशराशेर्भागो हियते, अनेन च भागहारेण यावत्प्रमाणं प्रतरक्षेत्रखण्डं लभ्यते तत्र ये नभः प्रदेशास्तावत्प्रमाणाः सर्वेऽपि ज्योतिष्कदेवा भवन्ति, अथवा यथोक्तभागहारप्रमाणं प्रतरक्षेत्रखण्डं यद्येकैको ज्योतिष्कदेवोऽपहरति तदा सर्वोऽपि प्रतरस्तैर्ज्योतिष्कदेवैर्युगपदेवापहियत इत्यत्राप्येक एवार्थः, ज्योतिष्कदेवाश्च व्यन्तरेभ्यः सङ्ख्यातगुणा महादण्डके पठिता इति इह व्यन्तरेभ्यः सङ्ख्येयगुणहीनः प्रतरप्रतिभागस्तेपामुक्त इति गाथार्थः ॥ १५५ ॥ अथ देवगतावेव वैमानिकानां प्रमाणमाह
सकीसाणे सेढीअसंख उवरिं असंखभागो उ । आणयपाणयमाई पल्लस्स असंखभागो उ || १५६ ॥
‘शक्रः' सौधर्मेन्द्रस्तदुपलक्षितह सौधर्मदेवलोक एव गृह्यते, ततश्च सौधर्मे कल्पे सर्वेऽपि देवाः पूर्वोक्तस्वरूपस्य घनीकृतलोकप्रतरस्यासङ्घयेयाः श्रेणयो भवन्ति, प्रतरासङ्घयेय भागवर्तिनीष्वसङ्घयेयासु श्रेणिषु यावन्तः क्षेत्रप्रदेशास्तत्प्रमाणाः सौधर्मदेवलोके सर्वेऽपि देवा भवन्तीत्यर्थः, ईशान देवलोकेऽपि देवानां प्रमाणमित्थमेव प्रतरासङ्ख्येय भागवर्न्यसङ्ख्येयश्रेणिप्रदेशराशितुल्यत्वेन वक्तव्यम्, केवलं सौधर्मदेवेभ्य एते सङ्घयेयगुणहीनाः, एतेभ्यस्तु सौधर्मदेवाः सङ्खयेयगुणा इति द्रष्टव्यम्, इत्थमेव महादण्डके पठितत्वादिति । ' उवरिं असंखभागो उ' त्ति सौधर्मेशानाभ्यामुपरिष्टात् सनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्र सहस्रार
वैमानिक मानं
।।१५२।।