________________
भवनपत्यादिमानं
जीवसमासे , यथोक्तप्रमाणानि क्षेत्रखण्डान्येकस्यां लोकप्रदेशश्रेणी यावन्ति भवन्ति तावन्तो रूपे प्रक्षिप्ते उत्कृष्टतो मनुष्याः सर्वेऽपि भवन्तीति हैमीवृत्ती सामर्थ्यादुक्तं भवति, इत्थं च पूर्वगाथोक्तं श्रेण्यसंख्येयभागवर्त्तित्वं न विरुध्यत एव, एकैको हि मनुष्यः स्वापहृतयथोक्तक्षेत्र॥१५॥
खण्डप्रदेशानामसंख्येयभागे वर्त्तते, अतः समस्तप्रस्तुतक्षेत्रखण्डात्मिकायाः सर्वस्याः श्रेणेः सर्वेऽपि मनुष्या असंख्येयभागे | वर्तन्त इति प्रतीतमेवेत्यलं विस्तरेण, तदेवं जघन्यत उत्कृष्टतश्चोक्तं मनुष्यपंचेन्द्रियप्रमाणं, इह च मनुष्यगतौ मिथ्यादृष्ट्यादयोऽ| योगिपर्यन्ताश्चतुर्दशापि जीवसमासाः सम्भवन्ति, तत्र सम्मूर्च्छजमनुष्यास्तावत् सर्वेऽपि मिथ्यादृष्टयो, गर्भजा अपि बहवो | मिथ्यादृष्टय एव, शेषेषु तु तेषु सास्वादनादयोऽयोगिपर्यन्ता ओघोक्तप्रमाणाद्यनुसारेण स्वयमेव परिभावनीया इति गाथार्थः ॥१५४ ॥ साम्प्रतं पंचेन्द्रियप्रक्रमत एव देवगतौ भवनपतिव्यन्तरज्योतिष्काणामेकगाथयैव प्रमाणमभिधित्सुराहसेढीओ असंखेज्जा भवणे वणजोइसाण पयरस्स । संखेज्जजोयणंगुलदोसयछप्पन्नपलिभागो ॥ १५५॥
'सेढीओ असंखेज्जा भवणे' त्ति विभक्तिव्यत्ययादेकदेशेन च समुदायस्य गम्यमानत्वाद्भवनपतयो देवाः प्रतरासंख्ये| यभागवर्तिनीषु श्रेणिषु यावन्तः प्रदेशास्तत्प्रमाणा भवन्ति, तासां च श्रेणीनां विस्तरमानं पुरस्ताद् वक्ष्यते, 'वण जोइसाण'
त्ति, व्यन्तराणां ज्योतिष्काणां च यथासंख्यं संख्येययोजनप्रमाणा एकप्रादेशिकी पंक्तिः षट्पंचाशदधिकांगुलशतद्वयप्रमाणा काचैकप्रादेशिकी पंक्तिः प्रतरस्य पूर्वोक्तस्वरूपस्य प्रतिभागो-भागहारो द्रष्टव्यः, इदमुक्तं भवति-संख्येययोजनप्रमाणायामेकपा-| |देशिक्यां पंक्ती यावन्तो नभःप्रदेशा भवन्ति तैः सर्वैः प्रतरप्रदेशराशेर्भागो हियते, अमुना च भागहारेण यावत्प्रमाणं प्रतरक्षे
॥१५१॥