________________
जीवसमासे हेमीवृत्ती. ॥१५॥
उत्कृष्टतः श्रेण्यसङ्खयेयभागप्रमाणा भवन्ति, संवर्तितघनीकृतलोकस्यैकस्याः श्रेणेः-प्रदेशपंक्तेरसंख्येयतमे भागे यावन्तः प्रदेशास्तावत्- प्रकारान्तप्रमाणाः सर्वेऽपि मनुष्या उत्कृष्टपदे भवन्तीत्यर्थ इति गाथार्थः ॥ १५३ ॥ तदेवमेकश्रेण्यसंख्येयतमभागप्रदेशराशिप्रमाणत्वेन
रेण मनुष्य उत्कृष्टतो निरूपितानपि समस्तमनुष्यान् प्रकारान्तरेण निरूपयितुमाह
मानं उक्कोसेणं मणुया सेटिं च हरंति रूवपक्खित्ता । अंगुलपढमयतियवग्गमूलसंवग्गपलिभागा ॥१५४॥ |
चकारः पक्षान्तरसूचकः, सचेत्थं योज्यते न केवलं श्रेण्यसंखथेयभागप्रदेशराशिप्रमाणाः समस्तमनुष्याः, किन्तु श्रेणि च-18 प्रदेशपंक्तितरूपां सर्वा तेऽपहरन्ति, कथंभूताः सन्त इत्याह-रूपस्य-एकमनुष्यलक्षणस्य उत्कृष्टपदप्राप्तेष्वपि तेष्वविद्यमानस्य । | बुद्धिविकल्पनया प्रक्षिप्त-प्रक्षेपो येषु ते रूपप्रक्षिप्ताः, असत्कल्पनया प्रक्षिप्तैकमनुष्यरूपाः सन्त इत्यर्थः, किं प्रत्येकमेकैकप्रदेशापहारेण ४ ते श्रेणिमपहरन्ति !, नेत्याह-'अंगुलपढमये ' त्यादि, तस्याः श्रेणेरंगुलप्रमाणे क्षेत्रे प्रथमकं वर्गमूलं गृह्यते, ततोऽपि पूर्वोक्त-18
युक्त्या द्वितीयं पुनस्तृतीयमिति, तत्रांगुलप्रमाणश्रेणिक्षेत्रस्य प्रथमकं यद्वर्गमूलं तस्य 'तियवग्गमूल ' त्ति तृतीयवर्गमूलेन यः संवर्गो-गुणनं तेन हेतुभूतेन यः प्रतिनियतो भागः-श्रेणिखण्डरूपस्तस्मात्-तमाश्रित्य ते सर्वा श्रेणिमपहरन्तीत्यर्थः, इदमुक्तं भवतिअंगुलप्रथमवर्गमूलप्रदेशराशौ तृतीयवर्गमूलप्रदेशराशिना गुणिते यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डं यद्येकैको मनुष्यः। श्रेणेमध्यादपहरति तदोत्कृष्टपदवर्तिभिः सर्वैरेव मनुष्ययुगपदेव सैका लोकप्रदेशश्रेणिः सर्वाऽप्यपहियते यद्येकं मनुष्यरूपं
॥१५०॥ मनुष्यराशौ क्षिप्यते, तच्च नास्ति, उत्कृष्टतोऽपि तेनैकरूपेणोनस्वरूपाणामेव मनुष्याणां परमगुरुभिदृष्टत्वाद्, एवं च सति