________________
जीवसमासे हैमीवृत्ती.
॥१४८॥
तदेवं तिर्यग्गतौ सामान्येन तिरथां प्रमाणमुक्तम्, ततः सामान्यतो विशेषतश्च पंचेन्द्रियतिरश्चां पृथिव्यादीनां तु प्रमाणं विशेषतो भणनीयमप्युल्लंघ्य पंचेन्द्रियसामान्यान्मनुष्यगतौ मनुष्याणां तावत् प्रमाणमाह
संखेज्जा पज्जत्ता मणुयाऽपज्जत्तया सिया नत्थि । उक्कोसेण जइ भवे सेढीऍ असंखभागो उ ॥ १५४ ॥
मनुष्यास्तावद् द्विविधाः-स्त्रीगर्भसंभूता गर्भजाः, मनुष्यवातपित्तादिजन्मानो विस्तरेण पूर्वाभिहितस्वरूपाः सम्मूर्च्छजाश्च तत्र गर्भजाः पर्याप्ता अपर्याप्ताश्च भवन्ति, सम्मूर्च्छजास्त्वन्तर्मुहूर्त्तायुषोऽपर्याप्ता एव म्रियन्ते, अतस्ते पर्याप्ता न भवन्त्येवेत्यपि प्रागेवोक्तम्, तदिह पर्याप्तग्रहणेन गर्भजा एव पर्याप्ता मन्तव्याः, अपर्याप्तस्वीकारेण तु गर्भजा अपर्याप्ताः सम्मूर्च्छजाश्चापर्याप्ताः स्वीकृता बोद्धव्याः, तत्र चैवं सति ये गर्भजाः पर्याप्तास्तावत्ते ध्रुवराशित्वात् सर्वदैव संख्येया भवन्ति, ननु संख्यातं संख्यातभेदमेव भवति, तदिह कतमेन संख्यातेन संख्याता एते मन्तव्या:, अत्रोच्यते, पष्ठवर्गे पञ्चमवर्गेण गुणिते यत् संख्यातं भवति तत्प्रमाणा एवामी समधिगन्तव्याः, अथ वर्ग इति किमुच्यते ? किंस्वरूपश्वासौ पंचमः कथंभूतश्च पष्ठ इति, अत्राभिधीयते, यत्र विवक्षितः कश्चिद्राशिस्तेनैव राशिना गुण्यते स तावद् वर्ग इत्युच्यते, तत्रैकस्य वर्ग एक एव भवति, अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते, द्वयोस्तु वर्गश्वत्वारो भवन्तीत्येष प्रथमो वर्गः ४, चतुर्णां तु वर्गः षोडशेति द्वितीयो वर्गः १६, षोडशानां तु वर्गो द्वे शते षट्पंचाशदधिके इति तृतीयो वर्ग : २५६, अस्य तु राशेर्वर्गः पंचषष्टिः सहस्राणि पंच शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्गः ६५५३६, अस्य च राशेर्वर्गः सार्द्धगाथया प्रोच्यते, तद्यथा - " चत्तारि य कोडिसया अउणत्तीसं च होंति कोडीओ | अउणावन्नं
मनुष्य
प्रमाणं
॥१४८॥