________________
जीवसमासे हैमीवृत्ती.
॥ १४७॥
तिर्यञ्चः, तेषां तिर्यग्गतिलक्षणकगतिविषयत्वेन स्तोकत्वादिति चेत्तदयुक्तं, यतो महादण्ड के सामान्यपर्याप्तपञ्चेन्द्रियग्रहणेऽपि पर्याप्तपञ्चेन्द्रियास्तिर्यञ्च एवावशिष्यन्ते, नारकमनुष्यपञ्चेन्द्रिया हि स्वल्पत्वेन ज्योतिष्कदेवादिभ्योऽप्यधस्ताद् दूरेऽसंख्येयभागवृत्तित्वेनाधीता इति तैर्गृहीतैरप्यत्र न किञ्चिद् वर्द्धते, तस्मात् पर्याप्तचतुरिन्द्रियेभ्योऽपि विशेषाधिकत्वभणनादिहापि पर्याप्तपञ्चन्द्रियास्तिर्यञ्च एव परमार्थतो विवक्षिता इति, अतः पर्याप्तानामपि पञ्चेन्द्रियतिरथां प्रज्ञापनाऽभिप्रायतो देवेभ्योऽसंख्येयगुणताऽवगम्यते, तथा च सति देवप्रतरापहारकालात्तेपामपि तदपहारकालः पूर्ववदसंख्येयगुणहीन एव युज्यते, नतु संख्येयगुणेन हीन इति तावद्वयमवगच्छामः, सुधीभिः पुनर्यदि घटते तदाऽन्यथाऽप्यविरोधेन गमनीयमित्यलं प्रसङ्गेन, तदेवमभिहितं विशेषतः पर्याप्तानामपि पञ्चेन्द्रियतिरथां प्रमाणम्, अथोत्तरार्द्धनैतेषामपि मध्यान्निर्द्धार्य तिर्यग्योषितां प्रमाणमाह - 'संखेज्जगुणेण तओ' इत्यादि, ततो देवसम्बन्धिनः प्रतरापहारकालात् संख्यातगुणेन कालेन तिरश्चीनां प्रतरस्यापहारो मन्तव्यः, संवदति चेदं महादण्डकेन, यतस्तत्र व्यन्तरादिदेवेभ्योऽधस्तात् संख्यातभागवृत्तित्वेन तिरश्चयोऽधीताः, व्यन्तरादिदेवास्तु ताभ्यः संख्यातगुणाः पठिता इति, अतो बहुत्वादमी तिरची प्रतरापहारकालात् संख्यातगुणहीनेनापि कालेन प्रागभिहितनीत्या प्रतरमपहरन्ति तिरभ्यो देवेभ्यः संख्यातगुणहीनत्वात् स्वल्पा इति तदपहारकालात् संख्यातगुणेन कालेन प्रतरमपहरन्तीति युक्तियुक्तमेवेति एतच्च सर्वं तिर्यग्गतौ मिथ्यादृशां प्रमाणमुक्तं, सास्वादनमिश्राविरतदेशविरतानां तु सामान्येन गतिचतुष्टयमंगीकृत्यौधिकं यत्प्रमाणमुक्तं तदनुसारेण विभागतोऽत्राप्यभ्यू किंचित् स्वयमेव बोद्धव्यम्, प्रमत्तादयस्तु तिर्यग्गतौ न सम्भवन्तीति प्रागेव निणतमिति गाथार्थः ।। १५३ ।।
तिर्यकत्री
मानं
॥१४७॥