________________
जीवसमासे हैमीवृत्तौः ॥१४३॥
स्त्रीनपुंसक तिर्यग्मानं
| गृह्यते, तत्र चांगुलप्रमाणेऽपि प्रतरक्षेत्रेऽसंख्येयाःश्रेणयो भवन्ति, प्रथमवर्गमूलमपि च तासामसंख्येयश्रेण्यात्मकं, तदसंख्येयभागेऽपि | चासंख्येयाः श्रेणयः, तासु च मध्ये एकैकाऽपि श्रेणिरसंख्येयप्रदेशात्मकैव, अतः सर्वास्वप्येतासु येऽसंख्याताः प्रदेशास्तावत्प्रमाणा उत्तरवैक्रियशरीरलब्धिसम्पन्नाः पर्याप्तसंज्ञिपंचेन्द्रियतियंचोऽसंख्येयेषु द्वीपादिषु गजमत्स्यहंसादयो भवन्तीति प्रतिपत्तव्यम् , अत्र विनेयजनानुग्रहार्थ कल्पनया कश्चिद्भावार्थः कथ्यते, तत्रांगुलप्रमाणे प्रतरक्षेत्रेऽसंख्येयश्रेण्यात्मकेऽपि पंचषष्टिः सहस्राणि पंच शतानि पत्रिंशदधिकानि श्रेणीनां कल्प्यन्ते, तद्यथा-६५५३६, अस्य राशेः प्रथमं वर्गमूलं षट्पंचाशदधिके द्वे शते२५६ द्वितीयं तु षोडश १६ तृतीयं चत्वारः ४ चतुर्थ द्वौ २ एतानि सद्भावतोऽसंख्येयानि प्रत्येकं चासंख्येयश्रेण्यात्मकानि ज्ञातव्यानि, तत्र षट्पंचाशदधिकशतद्वयलक्षणस्य प्रथमवर्गमूलस्यासंख्येयतमे भागे द्वात्रिंशच्छ्रेणयः कल्प्यन्ते, ताश्च प्रत्येकं सद्भावतोऽसंख्येयप्रदेशात्मिका अप्यसत्कल्पनया दशप्रदेशात्मिकाः परिभावनीयाः, ततो विंशत्यधिकशतत्रयप्रमाणाः पर्याप्तसंज्ञिपंचेन्द्रियतिर्यचो वैक्रियलब्धि| मन्तो विज्ञेयाः, सद्भावतस्त्वसंख्येयाः । अपर्याप्तानामसंज्ञिनां च वैक्रियलब्धिर्न भवत्येवेति पर्याप्तसंज्ञिविशेषणमिति गाथार्थः | ॥ १५२ ।। तदेवं मिथ्याशामेकेन्द्रियादिस्वरूपाणां सामान्येन तिरश्चां प्रथमं प्रमाणमुक्तं, ततः पर्याप्तापर्याप्तस्वरूपाणां सामान्येन | पंचेन्द्रियतिरश्चां ततोऽप्युत्तरवैक्रियलब्धिमत्पंचेन्द्रियतिरश्चां, साम्प्रतं पुनः पूर्वोक्तपर्याप्तापर्याप्तपंचेन्द्रियतिर्यग्भ्यो निर्झर्य विशेषतः | पर्याप्तानामेव स्त्रीपुनपुंसकस्वरूपाणां पंचेन्द्रियतिरश्चां प्रमाणमाह
संखेज्जहीणकालेण होइ पज्जत्ततिरियअवहारो । संखेनगुणेण तओ कालेण तिरिक्खअवहारो॥१५३॥
॥१४३॥