________________
जीवसमासे हैमीवृत्ती.
॥१४२॥
पढमंगुलमूलस्सासंखतमो सूइसेढिआयामो । उत्तरविउब्वियाणं पज्जत्तयसन्नितिरियाणं ॥ १५२ ॥
अनन्तरोक्तसामान्यपंचेन्द्रियतिर्यक्षु मध्ये पर्याप्त संज्ञिनां पर्याप्तगर्भजानां पंचेन्द्रियतिरश्चां वैकियलब्धिमतामेतत् प्रमाणं भवति, किमित्याह - ' पढमंगुले ' त्यादि, एते हि तावत् पर्याप्तगर्भजपंचेन्द्रियतिर्यंचो वैक्रियशरीरिणः कालतोऽसंख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्याः क्षेत्रतस्तु प्रतरासंख्येय भागवर्त्यसंख्येयश्रेणीनां यः प्रदेशराशिस्तत्समानाः सिद्धान्ते प्रतिपादिताः, यदाह“ पंचिदियतिरिक्खजोणियाणं भंते! केवतिया वेडव्वियसरीरा पण्णत्ता ? गोयमा ! असंखेज्जा कालओ असंखिज्जाहिं ओसप्पिणीउस्सप्पिणीहिं अवहीरंति, खेत्तओ पयरस्स असंखज्जइभागो असंखेज्जाओ सेढीओ " त्ति, आह- ननु प्रतरासंख्येयभागे असंख्येयाः श्रेणयोऽसंख्यातयोजनकोटीकोटीगता अपि भवन्ति तत् किं तावद्विस्तरा अपि ता इह गृह्यन्ते उतान्यथेत्याशंक्यागमेऽपि “ असंखेज्जाओ सेढीओ " इत्यस्यानन्तरमुक्तम् -" तासिणं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेज्जइभागो " तासामसंख्यात श्रेणीनां विष्कम्भसूचित्तिर्यग्विस्तारिणी प्रदेशपंक्तिरिति हृदयं, सा ज्ञेयेति वाक्यशेषः, कियतीत्याह - 'अंगुलपढमे - त्यादि, एतत्संवादकं चेह गाथायां सूत्रकारेणोक्तं ' पढमंगुले ' त्यादि, तस्मादयमर्थ:-' अंगुलस्य ' अंगुलप्रमाणस्य प्रतरक्षेत्रस्य यन्मूलं-वर्गमूलं तदंगुलमूलं प्रथमं च तदंगुलमूलं च प्रथमांगुलमूलं तस्य प्रथमांगुलमूलस्यासंख्येयतमो यो भागस्तत्प्रमाणा सूचिरिह श्रेणीनामायामो विस्तरो बोद्धव्यः, इदमत्र तात्पर्य - अंगुलप्रमाणे प्रतरक्षेत्रे यः श्रेणिराशिस्तत्र किलासंख्येयानि वर्गमूलान्युत्तिष्ठन्ति तेषु मध्ये प्रथमे वर्गमूले याः श्रेणयस्तासामसंख्येयतमे भागे यावत्यः श्रेणयस्तत्प्रमाणा सूचिः श्रेणीनां विस्तरोऽत्र
वैक्रिय तिर्यय्मानं
॥ १४२ ॥