SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ जविसमासे हैमीवृत्ती. ॥१४१॥ জন6 त्मकस्य लोकस्य सम्बन्धिनं सप्तरज्वायामविष्कम्भं एकप्रदेशमात्रपिण्डं सर्वात्मना त्वसंख्येयनभः प्रदेशप्रमाणं उपर्युपरिव्यवस्थापितप्रभूतमण्डकानां मध्यादेकमण्डकमिव प्रतरमपहरन्ति, कियता कालेनेत्याह- देवापहारकालादसंख्येयगुणहीनेन कालेन, इदमत्र हृदयं - एते पंचेन्द्रियतिर्यचः सामान्येन यथोक्तप्रतरासंख्येयभागेऽसंख्येययोजनकोटीकोटिवर्त्तिनीषु नभः प्रदेशश्रेणिषु यावन्तः प्रदेशास्तत्प्रमाणाः सिद्धान्ते क्षेत्रतः प्रतिपादिताः, कालतस्त्वसंख्येयोत्सप्पण्यवसर्पिणीसमयराशितुल्याः, उक्तं च- 'पंचेंदियतिरिक्खजोणिया णं भंते! केवइया पण्णत्ता ?, गोयमा ! असंखेज्जा कालओ असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति, खेत्तओ असंखेज्जाओ सेढीओ पयरस्थासंखेज्जइभागो, तासिणं सेढीणं विक्खंभसूई असंखज्जाओ जोयणको डाकोडीओ " इत्यादि, अतः प्रतरासंख्येय भागवर्न्यसंख्येययोजन कोटी कोटिगतनभःश्रेणिश्रितपदेशराशितुल्याः सामान्येन पंचेन्द्रियतिर्यंचो जीवा इत्युक्तं भवति, एते च सर्वे प्रतिसमयं प्रत्येकमेकैकं प्रदेशं गृह्णन्तो देवापहारकालादसंख्येयगुणनेन कालेन सर्व प्रतरमपहरन्ति देवा हि सर्वेऽपि पंचेन्द्रियतिर्यग्भ्योऽसंख्येयगुणहीनाः, पंचेन्द्रियतिर्यचस्तु तेभ्योऽसंख्येयगुणाः प्रज्ञापनामहादण्डके निर्दिष्टाः, ततश्च सर्वेऽपि देवाः प्रतिसमयं प्रत्येकमेकैकं प्रदेशं गृह्णन्तः पंचेन्द्रियतिर्यग्भ्योऽसंख्येयगुणहीनत्वेन स्वल्पा इति पंचेन्द्रियतिर्यग पहारकालादसंख्येयगुणेन कालेन सर्वं प्रतरमपहरन्ति, पंचेन्द्रियतिर्यंचस्तु देवेभ्योऽसंख्येयगुणत्वेन बहव इति देवापहारकालात् सामर्थ्यत एवासंख्यातगुणहीनतायुक्तेन स्वल्पेनैव कालेन सर्वं प्रतरमित्थमपहरंति, अंगुलासंख्येयभागरूपं तु प्रतरखण्डं यदि प्रत्येकं सर्वेऽपि गृह्णन्ति तदा सर्वेऽपि पंचेन्द्रियतिर्यच एकहेलयैव सर्व प्रतरमपहरन्तीति द्रष्टव्यमिति गाथार्थः ॥ १५१ ॥ अथ मिध्यादृष्टितिरश्चामेव वैक्रियलब्धिमतां प्रमाणमाह पंचेन्द्रियतिर्यग्मानं ॥ १४१ ॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy