________________
जीवसमासे हैमीवृत्ती. ॥१४॥
नारकाः श्रेण्यसंख्येयभागवर्तित्वे तुल्येऽप्यसंख्याततमे भागे द्रष्टव्याः, असंख्यातस्यासंख्यातभेदत्वाद्,एवं तृतीयपृथ्वीनारकेभ्योऽपि | मिथ्यादृष्टि चतुर्थपृथ्वीनारका असंख्याततमे भागे एव यावत् षष्ठपृथ्वीनारकेभ्यः सप्तमपृथ्वीनारका असंख्याततमे भागे वर्तन्त इति ।
तिर्यग्मानम् | असंज्ञिनो हि मत्स्यादयः प्रथमपृथिव्यामेवोत्पद्यन्ते न परत इति तस्यामेव नारकप्राचुर्य, संज्ञिनोऽपि बहुबहुतरबहुतमादि-| संक्लेशयुक्ता द्वितीयादिनरकपृथिव्युत्पादयोग्याः क्रमेण हीना इति तासु क्रमशो नारकहीनता भावनीयेत्युक्तं मिथ्यादृष्टिनारकप्रमाणं, सास्वादनाः सम्यग्मिथ्यादृष्टयश्च सप्तस्वपि पृथ्वीषु कदाचिद् भवन्ति कदाचित्तु न भवन्ति, यदि भवन्ति तदा चतृसृष्वपि । गतिषु सामान्येन पूर्वममी क्षेत्रपल्योपमासंख्येयभागप्रमाणाः प्रत्येकमुत्कृष्टतः प्रोक्तास्तदनुसारतोऽत्राप्येकस्यां नरकगतौ स्वल्पतराः केचिद् बोद्धव्याः, अविरतसम्यग्दृष्टयस्तु सप्तस्वपि पृथ्वीषु प्रत्येकमसंख्याताः सर्वदैवाव्यवच्छिन्नाः प्राप्यन्ते, असंख्यातं च क्षेत्रपल्योपमासंख्येयभागवानोऽमी सामान्येन चतसृष्वपि गतिषु पूर्व निर्णीताः, तदनुसारेणात्रापि स्वल्पं किमपि द्रष्टव्यम्, देशविरतादयस्तु नरकगतौ न सम्भवन्त्येवेति प्रागेव निर्णीतमिति गाथार्थः ॥ १४९ ॥ अथ चतुर्दशजीवसमासगतीमथ्यादृष्टयादिजीवद्रव्याणामेव तिर्यग्गतिविशषितं प्रमाणमाह
तिरिया हुँति अणंता पयर पंचिंदिया अवहरंति । देवावहारकाला असंखगुणहणि कालेणं ।। ६५० ॥
मिथ्यादृष्टय इति पूर्वगाथासूत्रादधिकृतं वर्तते, ततश्च मिथ्यादृष्टयस्तिय॑चः सामान्येनैकेन्द्रियादयोऽनन्ता भवन्ति, विशेष-है। चिन्तायां तु क्रियमाणायां पर्याप्तापर्याप्तस्वरूपाः सामान्येन पंचेन्द्रियतिर्यञ्चो मिथ्यादृष्टयः संवर्तितधनीकृतस्यासंख्येयप्रतरा