________________
जीवसमास हेमीवृत्ती.
॥१३९॥
कोडिगृहत्तं सजोगीण तियन्तरणस्थानवर्तिजीवद्रव्यप्रमाणम. आणमोहगुणस्थाने तु क्षीणमोह-BHI
R-CA
मोहक्षपकाँश्च मीलयित्वाऽपूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायगुणस्थानकवर्तिजीवद्रव्याणां सर्वसंख्या परिभावनीया, अस्यैव मिथ्यादृष्टि राशिद्वयस्य यथोक्तगुणस्थानत्रये वर्त्तनाद्, उपशान्तमोहगुणस्थाने तूपशान्तमोहजीवद्रव्याण्येव, क्षीणमोहगुणस्थाने तु क्षीणमोह- नारकमानं | जीवद्रव्याण्येव वर्तन्त इति निर्णीतमेवेति, उक्तं क्षीणमोहपर्यन्तगुणस्थानवर्तिजीवद्रव्यप्रमाणम् , अथ सयोगिगुणस्थानवार्तिसयोगिकेवलिजीवद्रव्यमानमाह- कोडिपुहुत्तं सजोगीणं' ति, सयोगिकेवलिनां सम्बन्धी राशिरवस्थितः सर्वदेव, नतु व्यवच्छिद्यते, स च सामान्येन पञ्चदशस्वपि कर्मभूमिषु जघन्यतः कोटिपृथक्त्वप्रमाण उत्कृष्टतोऽपि कोटिपृथक्त्वमानो भवति, अयोगिकेवलिनस्तु कदाचिद्भवन्ति कदाचित्तु न भवन्ति, यदि भवन्ति तदा जघन्यत एको वा द्वौ वा उत्कृष्टतस्तु संख्याता भवन्तीत्येतत् सूत्रकृता सुगमत्वादिकारणादनुक्तमपि स्वयमेव द्रष्टव्यमिति गाथार्थः ॥ १४८ ॥ तदेवं प्रतिपादितं सामान्येन प्रस्तुतचतुर्दशजीवसमासवर्तिजीवद्रव्यप्रमाणम् , अथ नरकादिगतिविशेषितं तदेवाभिधित्सुः नरकगतो तावदाह
पढमाए असंखेजा सेढीओ सेसियासु पुढवीसु । सेढीअसंखभागो हवंति मिच्छा उ नेरइया ॥ १४९ ॥ | मिथ्यादृष्टयो नारकाः प्रथमायां-रत्नप्रभानरकपृथिव्यामसंखचेयाः श्रेणयो भवन्ति, संवर्त्य घनीकृतलोकस्यासंख्यातास्वाकाशश्रेणिषु यावन्तः आकाशप्रदेशास्तावत्प्रमाणाः प्रथमनरकपृथिव्यां मिथ्यादृष्टिनारकाः सर्वेऽपि भवन्तीत्यर्थः, 'सेसियास्वित्यादि, शेषासु-शर्कराप्रभादिषु षट्सु नरकपृथिवीषु प्रत्येकं घनीकृतलोकस्यैकस्या अपि नभःश्रेणेरसंख्येयतमे भागे यावन्तः।
॥१३९॥ प्रदेशास्तावन्तो मिथ्यादृष्टिनारका भवंति, अत्र च द्वितीयपृथिव्यां ये श्रेण्यसंख्येयभागवत्तिनो नारकास्तेभ्यस्तृतीयपृथ्वी