________________
जीवसमासे हैमीवृत्ती.
॥१३८॥
भवन्ति तदा क्षपका रागादिजेतृत्वेन क्षीणमोहलक्षणा जिनाथ क्षपकश्रेण्यां युगपदेकसमयप्रवेशमङ्गीकृत्य जघन्यत एकादय उत्कृष्टतस्त्वष्टोत्तरं शतं प्राप्यन्त इति वाक्यशेषः, एते चापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायगुणस्थानकेषु वर्त्तमानाः क्षपका उच्यन्ते, श्रेणिमस्तक प्राप्तास्तु क्षीणमोहगुणस्थाने क्षीणमोहा इत्याख्यायन्ते, कुतः पुनरेकसमयप्रवेशमंगी कृत्यैतावन्त एवैते लभ्यन्ते नाधिका इत्याह-' पविसंति जाव अट्ठसयं ' ति, यतः कारणाद्युगपद् एकसमये क्षपकश्रेण्यां जघन्यत एकादय उत्कृष्टतो यावदष्टोत्तरशतप्रमाणा एव प्रविशन्ति नाधिका इति सिद्धान्तनियम इति भावः, तदेतद्युगपदेकसमयप्रविष्टानंगीकृत्य प्रमाणमुक्तं, अथ नानासमयप्रविष्टा नंगीकृत्याह - 'अद्धाए सयपुहुत्तं' ति, अद्धा क्षपकश्रेणिकालः सोऽपि चासंख्येयसमयात्मकोऽन्तर्मुहूर्त्तमानो द्रष्टव्यः, तस्यां चोक्तस्वरूपायामद्धायामुत्कृष्टतः प्रत्येकं शतपृथक्त्वं क्षपकाणां क्षोणमोहानां च लभ्यते, इदमुक्तं भवति अन्तर्मुहूर्त्तस्वरूपे क्षपकश्रेणिकाले एकस्मिन् समये युगपदेवैकादयो यावदुत्कृष्टोऽष्टोत्तरशतप्रमाणा जन्तवो मोहक्षपणाय प्रविष्टाः, एवमपरापरसमयेष्वन्येपामपि बहूनां प्रवेशसम्भवान्नानासमयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहूर्त्तप्रमाणे क्षपकश्रेणिकाले सामान्येन सर्वस्मिन्नपि मनुष्यक्षेत्रे कदाचिच्छतपृथक्त्वं क्षपकाणां शतपृथक्त्वं च क्षीणमोहानां प्राप्यते, ततः परं क्षपकश्रेणेरपि निरन्तरमभावादिति, असंख्येयाः कथममी न प्राप्यन्त इत्याक्षेपपरिहारौ पूर्ववद्वाच्याविति, तस्मादिदमिह स्थितम् - अपूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायलक्षणेषु त्रिषु गुणस्थानकेषु प्रत्येकं युगपदेकसमयप्रविष्टानाश्रित्य जघन्यत एकादय उत्कृष्टतस्त्वष्टोत्तरं शतं क्षपकाणां कदाचिल्लभ्यन्ते, नानासमयप्रविष्टांस्त्वङ्गीकृत्योत्कृष्टतः पूर्वाभिहितशब्दार्थशतपृथक्त्वप्रमाणास्त एव कदाचित् प्राप्यन्ते, क्षीणमोहगुणस्थानकेऽप्येवमेव वक्तव्यं, नवरं क्षपकस्थाने क्षीणमोहा वाच्याः, तदेवं पूर्वगाथेोक्तान् मोहोपशमकान् प्रस्तुतगाथोक्तान्
क्षपकक्षीणमोहमानम्
॥ २३८ ॥