SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हेमीवृत्ती. ॥१३६॥ ASS-%E शब्दार्था एवाप्रमत्तसंयताः संख्याता लभ्यन्ते, प्रमत्तसंयतेभ्यः स्तोकतरा इत्यभिप्राय इति गाथार्थः ॥ १४६ ॥ अथा-1अपूर्वेकरणा | पूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायलक्षणेषु त्रिषु गुणस्थानकेषु मोहनीयकर्मण उपशमकाः क्षपका एव च प्राप्यन्ते, नान्ये, &ादिमानं उपशान्तमोहगुणस्थाने तूपशान्तमोहनीयकर्माण एव क्षीणमोहगुणस्थाने पुनः क्षीणमोहा एव लभ्यन्ते नापर इति पूर्व गुणस्थानकविचारे निर्णीतं, अत इहापूर्वकरणादिक्षीणमोहगुणस्थानकान्तेषु पञ्चसु गुणस्थानकेषु यानि जीवद्रव्याणि तेषां मोहोपशमकोपशान्तमोहमोहक्षपकक्षीणमोहप्रमाणद्वारेणैव प्रमाण चिचिन्तयिषुर्मोहोपशमकानामुपशान्तमोहानां च तावत् प्रमाणमाह एगाइय भयणिज्जा पवेसणेणं तु जाव चउपन्ना । उवसामगोवसंता अद्धं पइ जाव संखेज्जा ॥ १४७॥ इह मोहनीयस्य कर्मण उपशमका उपशान्तमोहाच कदाचिद् भवन्ति कदाचित्तु न भवन्ति, उपशमश्रेणेरन्तरस्यापि सम्भवात् , | तत्र यदा भवन्त्यमी तदैकादयो भाज्या मोहोपशमका उपशान्तमोहाश्च, प्रत्येकमेको वा द्वौ वा त्रयो वा यावदुत्कृष्टतश्चतुःपंचाशतः प्राप्यन्ते, केनेत्याह-प्रवेशनेन, उपशमश्रेण्यामेकसमये युगपत् प्रवेशमङ्गीकृत्येत्यर्थः,एकादयश्चतुःपंचाशदन्ता एव जीवा एकस्मिन् समये उपशमश्रेणि प्रतिपद्यन्ते नाधिका इति सिद्धान्तनियमादिति, एते चापूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायगुणस्थानकेषूपशमका उच्यन्ते, उपशान्तमोहस्थानकं तु प्राप्ता उपशांतमोहा इत्यर्थः तदेवमेते चतुःपञ्चाशदेकसमये युगपत् प्रवेशमङ्गीकृत्योक्ताः, नानासमयप्रविष्टास्त्वधिकृत्याह--' अद्धं पड़ जाव संखेज्ज' ति, अद्धाशब्देन प्रारम्भात् परिसमाप्तिं यावदुपशमश्रेणिकालो विव- ॥१३६॥ |क्षितः, स चासङ्खयेयसमयात्मकोऽन्तर्मुहर्तमानो मन्तव्यः, उपशमश्रेणेरन्तर्मुहुर्तात् परतो निरन्तरमसंभवात् , ततश्चैतामन्तर्मुहूते ***SHAISA
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy