SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अविरत हैमीवृत्ती ग्दृष्टयादिमानं ॥१३५॥ जीवसमासे है एगाईया भज्जा सासायण तहय सम्ममिच्छा य । उकोसेणं दुहवि पल्लस्स असंखभागोउ ॥ १४५॥ सास्वादनाः सम्यमिथ्यादृष्टयश्चाध्रुवत्वाल्लोके कदाचिद् भवन्ति कदाचित्तु न भवन्ति, यदि भवन्ति तदैकादयो भाज्या॥१३५॥ विकल्पनीयाः, प्रत्येकमेको वा द्वौ वा त्रयो वा भवन्ति यावदुत्कृष्टतो द्वयोरपि राश्योः प्रत्येकममीषां क्षेत्रपल्योपमासङ्घयेयभागः प्राप्यते, भावार्थस्त्वयं-क्षेत्रपल्योपमस्यासङ्खयेयभागे यावन्तः क्षेत्रप्रदेशास्तावत्प्रमाणाः प्रत्येकं सास्वादनसम्यग्दृष्टयः सम्यग्मिथ्यादृष्टयश्चोत्कृष्टतः कदाचिद्भवन्तीति भाव इति गाथार्थः ।। १४५ ॥ अथाविरतसम्यग्दृष्ट्यादीनां प्रमाणमाह___ पल्लाऽसखियभागो अविरयसम्मा य देसविरया य । कोडिसहस्सपुद्दुत्तं पमत्त इयरे उ संखेज्जा ॥ १४६ ॥ इहाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तराशीनां ध्रुवत्वात् सामान्यतः सर्वलोकमाश्रित्य न कदाचित् व्यवच्छेदोऽत एतदिह चिंत्यते-विवक्षितकाले प्रत्येकमेते कियन्तः प्राप्यन्ते?, तत्राविरतसम्यग्दृष्टयो जघन्यतः क्षेत्रपल्योपमासङ्खयेयभागवर्तिप्रदेशराशिप्रमाणा लभ्यन्ते, उत्कृष्टतोऽप्येतावन्त एव, केवलमसंख्यातस्यासंख्यातभेदत्वाज्जघन्यादुत्कृष्टमसंख्यातगुणं द्रष्टव्यम्, देशविरता अप्येतावत्प्रमाणा एव, केवलं सोऽपि पल्योपमासंख्येयभागोऽविरतसम्यग्दृष्टीनां बृहत्तरोऽमीपां तु लघुतर इति द्रष्टव्यमिति, INI'कोडिसहस्सपुहत्तं पमत्त' त्ति प्रमत्ता:-पूर्वोक्तशब्दार्थाः, प्रमत्तसंयता इत्यर्थः, ते सामान्येन पञ्चदशस्वपि कर्मभूमिषु जघन्यतः BI कोटिसहस्रपृथक्त्वमुत्कृष्टतोपि कोटिसहस्रपथक्त्वं भवन्ति, द्विप्रभृत्या नवभ्यः पृथक्त्वमिति सामयिकी संज्ञा, ततश्च जघन्यतोऽपि कोटिसहस्रद्वयादुपरि उत्कृष्टतोऽपि नव कोटिसहस्राणि यावत् प्रमचसंयताः प्राप्यंत इत्युक्तं भवति, इतरे तु पूर्वाभिहित ॐॐ RSGASGASSERO
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy