________________
जीवसमासे हमावृत्ती. ॥१३॥
पूर्व व्याख्याताथैवेयं ॥ इह च ज्ञानदर्शनादीनामपि गुणत्वात् किमिति गुणप्रमाणात् पृथगुक्तानि ज्ञानदर्शनादिप्रमाणानीति न प्रेय, मिथ्यादृष्टि शिष्यमतिव्युत्पादनफलत्वाद्विस्तरस्येति गाथार्थः॥१४३॥ तदेवं प्रतिपादितं सर्वमपि भावप्रमाणं, तत्र च प्रतिपादिते प्रोक्तं द्रव्यक्षे
प्रमाणं कालभावभेदाच्चतुर्विधमपि प्रमाणं, अनेन च द्रव्याणि प्रमीयन्ते अत एव द्रव्याणां प्रमाणं द्रव्यप्रमाणमितिव्युत्पत्चेव्यप्रमाणद्वारमिदमुच्यते, इह च मिथ्यादृष्टिसास्वादनादिचतुर्दशजीवसमासलक्षणानि जीवद्रव्याणि प्रस्तुतानि वर्त्तन्ते, अतस्तान्ये-131 |वानेन चतुर्विधप्रमाणेन प्रमीयमाणानि प्रत्येकं यावन्ति भवन्ति तदेतद्दर्शयितुमाह
मिच्छादव्वमणता कालेणोसप्पिणी अणंताओ । खेत्तेण मिज्जमाणा हवंति लोगा अणंताओ॥१४४ ॥
इह द्रव्यतो मिथ्यादृष्टिजीवद्रव्याण्यनन्तानि भवन्ति,कालेन-कालप्रमाणेन पुनर्मीयमानानि तान्येव मिथ्यादृष्टिजीवद्रव्याण्यनन्ता उत्सर्पिण्यवसर्पिण्यो भवन्ति, किमुक्तं भवति?-अनन्तासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयाः प्राप्यन्ते सर्वलोकवर्तीन्यकेन्द्रियादिमिथ्यादृष्टिजीवद्रव्याण्यपि सर्वाणि तावन्ति भवन्तीति, क्षेत्रेण-पुनः क्षेत्रप्रमाणेन मीयमानानि तान्येव मिथ्यादृष्टिजीवद्रव्याण्यनन्ता लोका भवन्ति, अनन्तेषु लोकाकाशेषु यावन्तःप्रदेशास्तावन्ति भवन्तीत्यर्थः, भावप्रमाणेनेह मानं नोक्तं, तस्य द्रव्यक्षेत्रकालप्रमा| णान्तर्गतस्यापि प्रमाणत्वेन व्यापारात्, तथाहि-संख्यातासंख्यातानन्तस्वरूपा संख्या भावप्रमाणेऽधीता, संख्ययैव चानया मुख्यतो द्रव्याणि मीयन्ते, द्रव्यक्षेत्रकालास्तु सङ्खयेया एवोपाधित्वेन वर्तमाना गुणभूता एव, तस्मान्मुख्यतः सर्वत्रान्तर्गतेन भावप्रमाणेनैव
॥१३४॥ द्रव्याणि मीयन्ते इति न तदिह पृथगुक्तमित्येवमन्यत्रापि भावनीयमिति गाथार्थः ॥१४४ ॥ अथ सास्वादनसम्यमिथ्यादृष्टिविषयं प्रमाणमाह
ORGANE