SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ जविसमास हैमीवृत्ती. प्रमाण ॥१३३॥ त्रादीन्द्रियद्वारेणोत्पन्नत्वादिन्द्रियाणां साक्षाद्भुतं जीवस्य तु परोक्षं लोके प्रत्यक्षतया रूढं शब्दरूपरसगन्धस्पर्शविषयं मतिज्ञानमिन्द्रियप्रत्यक्षमुच्यत इत्यर्थः, यत्र त्विन्द्रियाण्यपि धूमलिङ्गादिद्वारेणाग्न्यादिकं वस्तु गृह्णन्ति न साक्षात्तदिन्द्रियाणामपि परोक्षत्वादिन्द्रियपरोक्षमुच्यते, तच्च किं तदिति सूत्रकार एव दर्शयति-अनुमानमौपम्यं चेति, अनु लिंगग्रहणसम्बन्धस्मरणाभ्यां पश्चान्मीयतेपरिच्छिद्यते वस्त्वनेनेत्यनुमानं, तच्च कृतकत्वधूमवत्त्वादिलिंगेभ्यः शब्दपर्वतादिष्वनित्यत्वाग्निमत्त्वादिसाध्यवस्तुनिश्चयरूपं द्रष्टव्यं, औपम्यं सादृश्यं, क्वचिदिन्द्रियानिश्चये वस्तुनि ततः सादृश्यात्तनिश्चयो भवति, यथा गोसदृशो गवयो भवतीति पूर्वगृहीतसङ्केतस्य प्रमातुः कदाचिदटव्यां गतस्य गोसादृश्यदर्शनाद् गवयनिश्चयः, तदेतद् द्विविधमपि ज्ञानं कृतकत्वादिभिः सादृश्येण च व्यवधानादिन्द्रियपरोक्षमुच्यते, अभावार्थापत्तिलक्षणमपि प्रमाणद्वयमिन्द्रियपरोक्षमस्ति, केवलमनुमानेऽन्तर्भावादिह पृथक् नोक्तं, शब्दरूपं तु श्रुतज्ञानं वक्ष्यते, प्रत्यक्षं त्विन्द्रियप्रत्यक्षतया प्रोक्तमिति प्रमाणपटकसंग्रहः । तदेवमिन्द्रियप्रत्यक्षमिन्द्रियपरोक्षं चेति | भेदद्वयरूपतया निरूपितं मतिज्ञानम् , अथ श्रुतज्ञानस्वरूपमाह-'केवलभासिये' त्यादि,केवलं केवलज्ञानं तेन भासिताः-प्रकटिता ये-18 स्तेिषां प्रतिपादकत्वेन सम्बन्धी य आगमो-द्वादशांगीरूपस्तच्छ्रतज्ञानं शब्दप्रमाणरूपं भवति, अत्रापीन्द्रियाणां शब्दस्य च व्यवधायकत्वात् पूर्वगाथोक्तपरोक्षताऽस्त्येवेति गाथार्थः ॥१४२॥ उक्तं ज्ञानप्रमाणमथ चक्षुर्दर्शनादिभेदात् यत् चतुर्विधं दर्शनप्रमाणं | | सामायिकादिभेदात् पंचविधं चारित्रप्रमाणं नैगमसंग्रहादिभेदतः पंचविधं नयप्रमाणमिति दर्शयन्नाह चक्खुदंसणमाई देसण चरणं च सामइयमाई। नेगमसंगहयवहारुज्जुसुए चेव सद्द नया ॥ १४३ ॥ ॥१३३॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy