SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ C 5 जीवसमासे | हैमीवृत्तौ. प्रत्यक्ष परोक्षभेदौ % ॥१३२॥ - 8 पच्चक्खं च परोक्खं नाणपमाणं समासओ दुविहं । पच्चक्खमोहिमणकेवलं च पारोक्ख मइसुत्ते॥१४१॥ | ज्ञानप्रमाणं समासतः-संक्षेपतो द्विविधमेव, तद्यथा-प्रत्यक्षं परोक्षं च, तत्र 'अशु व्याप्ता वित्यस्य धातोरश्नुते ज्ञानात्मनान् व्यामोतीत्यक्षो-जीवः 'अश भोजने' इत्यस्य वा अश्नाति भुंक्ते पालयति वा सर्वार्थानित्यक्षो-जीव एव, प्रतिगतमाश्रितमक्ष प्रत्यक्षमिति 'अत्यादयः क्रान्ताद्यर्थे द्वितीयये ति द्वितीयातत्पुरुषः समासः, अन्ये त्वक्षमक्षं प्रति वर्त्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वेन प्रत्यक्षशब्दस्य त्रिलिङ्गतार्थानुपपत्तेः, दृश्यते चेयं, प्रत्यक्षा बुद्धिः प्रत्यक्षो बोधः प्रत्यक्ष | ज्ञानमिति दर्शनात् तस्माद्यथादर्शिततत्पुरुष एवायं, इन्द्रियनिरपेक्षस्यैवात्मनः साक्षादर्थ यद्दर्शयति तज्ज्ञानं प्रत्यक्षमित्यर्थः, तच्चावधिमनःपर्यायकेवलस्वरूपमवे, अस्यैवेन्द्रियनिरपेक्षतयाऽर्थपरिच्छेदकत्वसम्भवादिति, इदं चागमे नोइन्द्रियप्रत्यक्षत्वनाक्त, नोशब्दस्य सर्वनिषेधवचनत्वाद्यत्रीन्द्रय सर्वथैव न व्याप्रियते किन्तु जीव एव साक्षादर्थ पश्यति तन्नोइन्द्रियप्रत्यक्षमवधिमनःपर्यायकेवलात्मकमेवेत्येकार्थत्वान्न कश्चिद्विरोधः, अक्षस्य-जीवस्य परं इंद्रियादिभिर्व्यवहितमिति परोक्षं, तच्च मतिज्ञानश्रुतज्ञानभेदतो द्विविधमेतज्ज्ञानद्वयस्यैवेंद्रियसापेक्षस्यार्थपरिच्छेदादिति गाथार्थः॥ १४१ ॥ मतिश्रुते अपि विशेषतो निरूपयितुमाह| इंदियपच्चक्खपि य अणुमाणं उवमयं च मइनाणं । केवलिभासियअत्थाण आगमो होइ सुयजाणं ॥ १४२ ॥ परोक्षतया यदुक्तमनन्तरं मतिज्ञानं तद् द्विविधं, इन्द्रियप्रत्यक्षमपिशब्दादिन्द्रियपरोक्षं चेत्यपि द्रष्टव्यं, तत्रेन्द्रियैः स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणैः सहकारिकारणभूतैरक्षं-जीवं प्रति गतमिन्द्रियप्रत्यक्षं, यत्रेन्द्रियाण्येव साक्षाद्वस्तु पश्यन्ति न तु जीवस्तच्छ्रो %A AASARIES 8 -% ॥१३२॥ %%%%%%
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy