SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ जीवसमासे है घटादिशब्दश्च तद्वाचको भवतीति मन्यत इति, यथा शब्दो व्यवस्थितस्तथैव चार्थो यथा चार्थस्तथैव शब्द इत्येवंस्वरूपं प्रकारं भूतःहैमीवृत्ती- प्राप्त एवंभूतो नयः, इदमुक्तं भवति-अयमपि नयः शब्दप्रधानो घटकुटकुम्भादिपर्यायध्वनीनां च भिन्नार्थत्वमुपगच्छति, केवलं नैगमादि नयाः पूर्वस्माद्विशुद्धत्वादयं विशेषो द्रष्टव्यः-यो घटादिशब्दवाच्यत्वेनोक्तोऽर्थः स यदा जलाहरणादिक्रियावस्थासु योषिन्मस्तकाद्या॥१३॥ रूढःस्वाभिघायकध्वनिवाच्यं चेष्टादिकमर्थ करोति तदैव घटादिस्तदैव च घटादिशब्दवाच्यो नान्यदा, प्रमाणयति चात्रायं प्रस्तुत | नयः-स्थानस्थितो निश्चेष्टो घटो न भवत्येव घटः, चेष्टालक्षणस्य घटशब्दवाच्यार्थस्याभावात्पर्वतादिवदिति, घटशब्दोऽपि निश्चेटाऽवस्थायां घटस्य वाचकत्वेन नैव प्रवर्त्तते, स्वाभिधेयस्याभावात् पटादिशब्दवदित्येवं कुटकुम्भेन्द्रशकादावपि भावना कार्येत्यत्र | बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयात्, स्वस्थाने विशेषावश्यकादौ प्रपञ्चेनोक्तत्वाच्चेति । एते नैगमादयः सप्त मूलभेदरूपा नया उत्तरभेदापेक्षया त्वमी समयेऽनेकविधाः प्रोक्ताः, 'एक्केको य सयविहो सत्त नयसया हवंति एमेव ' इत्यादिवचनादिति, आह-18 | ननु यद्यमी आगमेऽनेकविधाः प्रोक्ताः, तत् किमत्र स्वल्पभेदाभिधानं, मूलनया एवेह विवक्षिता इति चेन्ननु तेपि सप्तोक्ताः, किमितीह पञ्चाभिधीयन्ते, साधूक्तं, किन्तु शब्दसमभिरूडैवंभूतलक्षणास्त्रयो नया यथोत्तरविशुद्धत्वेनाभ्युपगमभेदेऽपि शब्दप्रधानत्वसामान्यं न व्यभिचरंतीत्येकशब्दनयत्वेन विवक्षिताः, ततो नैगमसंग्रहव्यवहारर्जुसूत्रलक्षणाश्चत्वारो मूलनयाः, पञ्चमस्तु शब्दनय इत्यदोष इति गाथार्थः ॥ १४०॥ ज्ञानप्रमाणं मतिश्रुतज्ञानादिभेदात् पंचधा प्रोक्तमेतच्च प्रत्यक्षपरोक्षभेदात् संक्षेपतो द्विविधमपि भवतीति दर्शयबाह ॥१३ ROSS
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy