SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ जीवसमासे नैगमादि हैमीवृत्ती. नयाः ॥१३०॥ परकीयपरिहारेण प्रांजलं वस्तु सूत्रयति-अभ्युपगच्छतीति ऋजुसूत्रः, वर्तमानकालमावि स्वकीयमेव च यो वस्त्वभ्युपगच्छति स नय ऋजुसूत्र इत्यर्थः, 'शप आक्रोशे' शब्द्यते-प्रोच्यतेऽर्थोऽनेनेति शब्दः-अर्थवाचको ध्वनिस्तत्प्रधानो नयोऽपि शब्दः, अयं हि शब्दमेव| प्रधानमिच्छत्यर्थ तु गौणं, शब्दवशेनैवार्थप्रतिपत्तेः, संज्ञाशब्दविकलस्यार्थस्य क्वाप्यप्रतीतेः शब्द एव प्रधानं न त्वर्थ इति भावः, अपरं चायं शब्दनयः पूर्वनयेभ्यो विशुद्धत्वान्नामस्थापनाद्रव्येन्द्रा न सन्त्येवेति मन्यते, इन्द्रकार्याकरणात् खपुष्पवादिति, भावेन्द्र| मेव च सन्तमभ्युपगच्छति इन्द्रकार्यकरणादिति, तटस्तटी तटं दाराः कलत्रं भार्येत्यादयो भिन्नलिंगाः शब्दाः वृक्षो वृक्षौ वृक्षाः इत्यादयो भिन्नवचनाश्च ध्वनय एकार्था इति च न मन्यते, लिंगवचनभेदात, स्त्रीपुरुषादिशब्दवदिति । इन्द्रः शक्रः पुरन्दर इत्यादींस्तु समानलिङ्गवचनान् शब्दानेकार्थान् प्रतिपद्यते वक्ष्यमाणनयाऽपेक्षया अविशुद्धत्वादिति । इन्द्रः शक्रः पुरन्दर इत्यादीनां पर्यायशब्दतया रूढानामपि पृथक् पृथक् भिन्नानान् समभिरोहति-समभिश्रयतीति समभिरूढः, अयं हि नयः शब्दप्रधानोऽपि पूर्वस्माद्विशुद्धत्वादित्थं मन्यते-इंद्रशक्रादयः पर्यायशब्दा नैकार्था भिन्ननिमित्तत्वाद् घटपटादिशब्दवत्, तथाहि-इन्दनात् इंद्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादीनां भिन्नान्येव निमित्तानि, तथा 'घट चेष्टाया' मिति विशिष्टचेष्टावानर्थो घट उच्यते 'कुट कौटिल्य' इति कौटिल्ययोगात्तु कुटः 'उभ उभ पूरण' इति कुस्थितपूरणाच्च कुम्भ इत्यादिपर्यायाणामिति भिन्नान्येव निमित्तानि, याद च निमित्तभेदेऽपि ध्वनीनामेकार्थत्वमभ्युपगम्यते तदातिव्याप्तिर्घटवृक्षादिशब्दानामप्येकार्थत्वप्रसंगादिति, वक्ष्यमाणनयापेक्षया चासौ | नयो विशुद्धत्वाद् घटनादिकोर्थः स्ववाचकघटादिशब्दाभिधेयं चेष्टादिकमर्थमकुर्वाणोऽपि तद्योग्यतया घटादिशब्दवाच्यो भवति ॥१३०॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy