________________
जीवसमासे हैमीवृत्ती.
॥१२९॥
मवसेयम्, एतेऽपि च ज्ञानादयोऽर्थाश्चत्वारोऽपि ' यथाऽनुपूर्व्या ' यथासङ्ख्यं पञ्चचतुः पञ्चपञ्चस्वरूपा ज्ञातव्याः, तत्राभिनिबोधिकृश्रुतावधिमनःपर्यायकेवलज्ञानभेदात् ज्ञानस्य पञ्च भेदाः पूर्वं ज्ञानद्वारे, दर्शनस्य तु चक्षुरचक्षुरवधिकेवलदर्शन भेदाच्चत्वारो भेदा दर्शनद्वारे चारित्रस्य तु सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रभेदात् पञ्च भेदाः संयमद्वारे विस्तरेण व्याख्याता एव, नयभेदाः पुनर्नैगमसंग्रहव्यवहारर्जुसूत्रशब्दलक्षणाः पञ्च तत्र नयन्त्येकांशेन वस्त्ववबोधगोचरं प्रापयन्तीति नयाः, नीयते एकांशवस्त्ववबोधविषयं प्राप्यतेऽमीभिरिति वा नयाः, नीतयो वा वस्त्वेकांशपरिच्छेदस्वरूपा नयाः, अनन्तधर्मात्मके वस्तुन्येकांशाध्यवसायात्मका नया इत्यर्थः, ते च नैगमादयस्तदुक्तम्- "नेगमसंगहववहार उज्जुसुए चेव होइ बोद्धव्वे । स य समभिरूढे एवंभूए य मूलनया ॥ १ ॥ " तत्र सामान्यं चास्ति विशेषाश्च सन्तीत्यादिप्रकारेण परस्परनिरपेक्षसामान्यविशेषाद्यभ्युपगमरूपा नैकेऽपि तु बहवो गमा वस्तुपरिच्छेदा यस्यासौ निरुक्तविधिना ककारलोपान्नैगमः, सामान्यविशेषात्मकत्वेन अनुयोगद्वारोक्तनिलयनप्रस्थकग्रामोदाहरणाद्यभिहितप्रकारैर्वा बहुरूपवस्त्वभ्युपगमपरो वा नयो नैगम इत्यर्थः, सर्वमपि भुवनत्रयान्तर्वर्ति वस्तुनिकुरुम्बं संगृह्णाति - सामान्यरूपतया एकत्वेनाध्यवस्यतीति संग्रहः, केवलसामान्याभ्युपगमपरो नयः संग्रह इत्यर्थः, व्यवहरणं व्यवहारो लौकिकप्रवृत्तिरूपस्तदभ्युपगमपरो नयोऽपि व्यवहारः, अथवा व्यवहियते लौकिको व्यवहारः सर्वोऽपि प्रवर्त्यतेऽनेनेति व्यवहारः, प्रायः केवलविशेषाभ्युपगमपरो नयो व्यवहार इत्यर्थः, जलाहरणवणपिण्डीप्रदानादिके हि लोकव्यवहारे घटनिंबादयो विशेषा एवोपकुर्वाणा दृश्यन्ते, न पुनस्तदतिरिक्तं घटादिसामान्यमिति विशेषानेव सच्चेनासौ मन्यते न सामान्यं, प्रायो लोकव्यवहारानुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेति विशेषवाद्ययमुच्यत इति ऋज्वतीतानागत
नोसंख्याने ज्ञानादि
भेदाः
॥ १२९ ॥