SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 5 जीवसमासे हैमीवृत्तौ. अनंते ॥१२८॥ 35ASARE वस्तुतत्त्वस्यैव संख्याविषयस्याभावादिति भावः, अनुयोगद्वारसूत्राभिप्रायस्तु इत्थमप्युत्कृष्टमनन्तानन्तकं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वादतस्तन्मतेनेहानन्तकस्याष्टविधत्वमुच्यते, तत्त्वं तु केवलिनो विदन्तीति, सूत्रे च यत्र क्वचिदन ल प्रक्षेपाः६ न्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यमिति ॥ प्ररूपितं संख्यातमसंख्यातमनन्तं च सप्रभेदं, तत्प्ररूपणे च “जंबुद्दीवो सरिसवपुण्णो" इत्यादिगाथायाः कथितो भावार्थः, इदानीमक्षरार्थ उच्यते तत्र जम्बूद्वीपग्रहणेन जम्बूद्वीपसमानस्य प्रथमं व्यवस्थापितत्वात्तदुपलक्षितोऽनवस्थितपल्यो गृह्यते, शलाकाप्रतिशलाकाशब्दाभ्यामपि शलाकाप्रतिशलाकापल्यौ | गृहीतौ, एतौ चोपलक्षणं महाशलाकापल्यस्य, ततश्च जम्बूद्वीप:-अनवस्थितपल्यो यो वर्त्तते सर्षपपूर्णः, कथं ? , सह, कैः ?-शलाकाप्रतिशलाकामहाशलाकापल्यैः, स किमित्याह- " जावइयं पडिपूरि" त्ति आर्षत्वाद्यावता सर्वपसमूहेन प्रतिपूर्वेत--पूर्वोक्तविस्तरक्रमेण सप्रशिखतया निरन्तरं भ्रियेत. तावत् सर्षपनिकुरुम्ब सर्षपाक्रान्तद्वीपसमुद्रसंख्यया सह रूपोनकमुत्कृष्टं संख्यातं भवति, तद्रूपप्रक्षेपे तु जघन्यं परीतासंख्येयक सञ्जायत इत्यादि स्वयमेव द्रष्टव्यं, सूत्रकारेण तु नोक्तं, संख्यातस्वरूपे प्रोक्त तस्य सुखावसेयत्वादिति गाथार्थः ॥१३९ ॥ तदेवमुक्तं श्रुतसंख्यानगणनसंख्यानभेदभिन्नं संख्यानमथ तनिषेधस्वरूपं नोसंख्यानमभिधत्सुराहनोसंखाणं नाणं दंसण चरणं नयप्पमाणं च । पंच चउ पंच पंच य जहाणपुवीए नायव्वा ॥ १४०॥ 4॥१२८॥ 'नोसंख्यानं' सङ्ख्थाननिषेधरूपं तल्लक्षणं यत् प्रमाणं भावप्रमाणमित्यर्थः, तदिह ज्ञानदर्शनचारित्रनयभेदात् चतुर्विध A4%25A 4-
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy