________________
**
अनन्त स्वरूप
***
**
जीवसमासे &ा युक्तानन्तकं स्यादिति, तदुच्यते, यदा जघन्ययुक्तानन्तकराशिस्तेनैव राशिना गुण्यते रूपं चैकं ततः पात्यते तदोत्कृष्ट युक्तानन्तकं हैमीवृत्ती भवति, यदा च तदपि पातितं रूपं गण्यते तदा जघन्यमनन्तानन्तक सम्पद्यते, ततः परमेकोत्तरवृद्धया संख्यास्थानानि मध्यममन
न्तानन्तकं, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेति भावः, अन्ये त्वाचार्याः प्रतिपादयंति-जघन्यमनन्तानन्तकं पूर्ववद्वारात्रयं वय॑ते, तत॥१२७॥
स्तस्मिन्नेव राशौ एते पडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते, तद्यथा-" सिद्धा निगोयजीवा वणस्सई काल पोग्गला चेव । सव्वमलोगागासं छप्पेते पंतपक्खेवा ॥१॥ अयमर्थः-सर्वे सिद्धाः सर्वेऽपि सूक्ष्मवादरनिगोदजीवाः प्रत्येकसाधारणभेदभिन्नाः सर्वे च वनस्पतयः सर्वोऽपि चातीतानागतवर्तमानकालसमयराशिः सर्वलोकवर्ती च सर्वःपुद्गलसमूहः लोकालोकस्वरूपस्य च सर्वस्याप्याकाशस्य प्रदेशाः, एते षडप्यनन्तानन्तकविचारेत्र प्रस्तुते स्वयमनन्तस्वरूपाः प्रक्षेपकाः प्रस्तुतराशौ प्रक्षिप्यन्ते, अत्राह-अनन्तकविचारस्यात्र प्रस्तुतत्वादनन्तात्मका एव राशयः प्रक्षेप्तव्याः, सङ्खचातासङ्खथातराश्योः स्वल्पत्वेनाकिश्चित्करत्वात् ,तत्र च वनस्पतिग्रहणे प्रत्येकवनस्पतय एवाधिकाः प्राप्यन्ते, साधारणानां 'निगोयजीवा' इत्यनेन पूर्वमेव गृहीतत्वात्, प्रत्येकवनस्पतिभिश्च प्राप्तैरपि न कश्चिदुपयोगः, स्वल्पत्वादिति, नैतदेवमभिप्रायापरिज्ञानाद्, एतदेव हि निगोदजीवानन्तकं प्रत्येकजीवाधिक्यविशेषितं राशेवृद्धथापादनाथ वनस्पतिग्रहणेन द्वितीयवारं प्रक्षिप्तं, इह हि पौनरुक्त्यचिन्ता नोपयोगिनी राशिवृद्धथापादनस्यैव साध्यत्वात्तथैकस्यापि राशेर्वारद्वयप्रक्षेपेण सम्पद्यत एवेत्यलं विस्तरेण, एतैश्च षड्भिरप्यनन्तकप्रक्षेपः पूर्वराशौ प्रक्षिप्तो राशिरापद्यते स पुनरपि पूर्ववद्वारावयं वयेते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञानं केवलदर्शनं च ज्ञेयादिभेदात् प्रत्येकमनन्तभेदभिन्नं प्रक्षिप्यते, ततश्चोत्कृष्टमनन्तानन्तकं भवतीति प्रस्तुतप्रकरणचूर्णावुक्तं, सर्वस्यैव वस्तुजातस्य संगृहीतत्वाद् , अतः परं
6॥१२७॥