SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्तौ. ॥ १२६ ॥ | णादिकर्मणां स्थितिबन्धे जघन्यमध्यमादिभेदभिन्ना रसविशेषाः असंख्येया एव, एतेषां चानुभागविशेषाणां निर्वर्त्तकान्यसंख्येयलोकाकाशप्रदेश प्रमाणान्यध्यवसायस्थानानि भवन्ति, अतोऽध्यवसायस्थानकारणभूतानामसंख्येयत्वात्तत्कार्यभूता अनुभागविशेषा अप्येतावन्तो द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानां, “जोगछेयपलिभाग" त्ति, योगो मनोवाक्कायविषयं वीर्य तस्य केवलि - प्रज्ञाछेदेन छिद्यमानस्य प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागास्ते च निगोदादीनां संज्ञिपंचेन्द्रियपर्यन्तानां जीवानामाश्रिता जघन्यादिभेदभिन्ना असंख्येया मन्तव्याः, 'दुण्ह्य समाण समयत्ति ' द्वयोश्च समयोः उत्सर्पिण्यवसर्पिणीकाललक्षणयोः समया असंख्येयस्वरूपाः, एवमेते प्रत्येकमसंख्येयस्वरूपा दश क्षेपाः पूर्वोक्ते वारत्रयवर्गिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशिः पिण्डितः सम्पद्यते स पुनरपि पूर्ववद्वारत्रयं वर्ग्यते, एवं च यो राशिर्भवति तत एकस्मिन् रूपे पातिते उत्कृष्टमसंख्येयासंख्येयकं भवति । उक्तं नवविधमप्यसंख्येयकं, साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकमभिधीयते, तत्रोत्कृष्टासंख्येयासंख्येयकभणने यद्रूपं पातितं तद्यदा तस्मिन्नेव राशौ प्रक्षिप्यते तदा जघन्यं परीतानन्तकं भवति, ततः परमेकोत्तरया वृद्धया यानि संख्यास्थानानि तत् सर्वं मध्यमं परीतानन्तकं यावद् उत्कृष्टं परीतानंतकं न प्रामोति, कियत् पुनरुत्कृष्टं परीतानन्तकं भवतीति, उच्यते, जघन्ये परीतानन्तके यावन्ति रूपाणि भवन्ति तावत्संख्याः प्रत्येकं जघन्यपरीतानन्तकप्रमाणा राशयो व्यवस्थाप्यन्ते, पूर्ववच्च ते परस्परं गुणिताः सन्तो यं राशिमुत्पादयन्ति स एकेन रूपेणोन उत्कृष्टं परीतानन्तकं भवत्युदाहरणभावनाऽत्रापि पूर्ववदिति, येन च रूपेणोनोऽसौ राशिर्यदा तदपि गण्यते तदा जघन्यं युक्तानन्तकं भवति, एतज्जघन्ययुक्तानन्तकराशिप्रमाणश्चाभव्यराशिः केवलिभिर्दृष्ट इति प्रतिपत्तव्यं, अतः परमेकोत्तरवृद्धया यानि संख्यास्थानानि तत् सर्वं मध्यमं युक्तानन्तकमवसेयं यावदुत्कृष्टं युक्तानन्तकं न प्राप्नोति, कियत् पुनरुत्कृष्टं असंख्ये प्रक्षेपाः १० | ॥ १२६ ॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy