SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ जीवसमासे है मस्मिन्नेव राशौ क्षिप्यते तदा जघन्य परीतानन्तक सम्पद्यते, एवमेकीयाचार्यमतं तावद्दर्शितं, अन्ये त्वाचार्या उस्कृष्टमसंख्येया-8 हैमीवृत्ती. ४ असंख्येय | संख्येयकमन्यथा पूरूपयन्ति, तथाहि तद्वचः -जघन्यासंख्येयासंख्येयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, स्य | तस्यापि च वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसंख्येयस्वरूपा दश राशयस्तत्र प्रक्षि-14 ॥१२५॥ | प्यन्ते, तद्यथा-" लोगागासपएसा धम्माधम्मेगजीवदेसा य । दबट्ठिया निओया पत्तेया चेव बोद्धब्वा ॥१॥ ठिइबंधज्झवसाणे । अणुभागा जोगछेयपलिभागा । दुण्ह य समाण समया असंखपक्खवया दस उ ॥२॥" अयमर्थः, लोकाकाशस्य सर्वस्यापि यावन्तः प्रदेशाः तथा धर्मास्तिकास्याधर्मास्तिकायस्यैकस्य च जीवस्य यावन्तः प्रदेशाः “दव्वढिया निओय"त्ति सूक्ष्माणां बाद| राणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थः, ' पत्तेया चेव 'त्ति पृथिव्यप्तेजोवायुप्रत्येकवनस्पतिद्वीन्द्रियत्रीन्द्रिय8 चतुरिन्द्रियपश्चेन्द्रियलक्षणाः सर्वेऽपि प्रत्येकशरीरिणो जीवा इत्यर्थः, 'ठिइबंधज्झवसाण' त्ति, ज्ञानावरणादिकर्मणां स्थितिबन्धस्य ल कारणभूतान्यध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि तान्यपि सर्वाणि, अत्राह-नन्वत्रासंख्येयकविचारे प्रस्तुतेऽसंख्यातस्वरूपा एव राशयः प्रक्षेपेऽधिक्रियन्ते न संख्यातात्मकाः,तेषामल्पत्वेनेहाकिञ्चित्करत्वात्, नाप्यनन्ताअनन्तानामसंख्येयकेऽनुप्रवेशायोगात् तत् 1 5 किमेतानि स्थितिबन्धाध्यवसायस्थानान्यसंख्ययानि येनेहाधिक्रियन्ते?,उच्यते, एवमेतत्, तथाहि-ज्ञानावरणीये जघन्योऽन्तमुहर्तप्रमाणः | स्थितिबन्धः, उत्कृष्टस्तु त्रिंशतसागरोपमकोटीकोटिप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तमुहूर्तादौ त्वयमसंख्येयभेदः, ॥१२५॥ 31 एषां च स्थितिबन्धानां निवर्तकान्यध्यवसायस्थानानि प्रत्येकं भिन्नान्येव, एवं सत्येकस्मिन्नपि ज्ञानावरणेऽसंख्येयानि स्थितिबन्धा-15 | ध्यवसायस्थानानि लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यमिति, असंख्ययकत्वममीषां व्यक्तमेव, 'अणुभाग'त्ति अनुभागाः ज्ञानावर
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy