SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ जविसमासे रूपात्मकेऽप्यसत्कल्पनया किल पञ्च रूपाणि सम्प्रधार्यन्ते, ततः पंचैव वाराः पञ्च पंच व्यवस्थाप्यंते, तद्यथा-५। ५। ५। ५। ५।, 8 नवविधम हैमीवृत्ती. अत्राद्य-पंचप्रमाणो राशिरुत्तरेण पंचप्रमाणेन राशिना गुणितो जाता पंचविंशतिः, सा च पंचभिराहता जात पंचविंशं शतमित्यादि ल संख्येयकम् ॥१२४॥ क्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पंचविंशत्यधिकान्येकत्रिंशच्छतानि ३१२५, एष कल्पनया एतावन्मानः सद्भावतस्त्व| संख्यातस्वरूपो राशिरेकेन रूपेण हीन उत्कृष्ट परीतासंख्येयकं सम्पद्यते, यदा तु येन रूपेणोनः प्रतिपादितोऽयं राशिस्तदपि तु रूपं ४ गण्यते तदा जघन्ययुक्तासंख्येयकंजायते, अस्मिंश्च जघन्ये युक्तासंख्येयके यावन्ति रूपाणि प्राप्यन्ते पूर्वोक्तायां आवलिकायामपि तावन्तः समया भवन्तीति प्रतिपत्तव्यं, अतः सूत्रे यत्र क्वचिदावलिका गृह्यते तत्र सर्वत्र जघन्ययुक्ताऽसंख्येयकतुल्यसमयराशिमानाऽ. | सौ द्रष्टव्या, इतश्च जघन्ययुक्ताऽसंख्येयकराशेः परत एकोत्तरया च वृद्ध्या यानि संख्यास्थानानि तत् सर्व मध्यमं युक्ताऽसंख्येयकमवसेयं तावद्यावदुत्कृष्टं युक्ताऽसंख्येयकं न प्रामोति, कियत् पुनरुत्कृष्टं युक्ताऽसंख्येयकं भवतीत्युच्यते, जघन्यकयुक्तासंख्येकराशिस्तेनैव राशिना गुणित एकेन रूपेणोन उत्कृष्ट युक्ताऽसंख्येयकं भवति, यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसंख्येयासंख्येयकं भवति, ततः परमेकोत्तरया वृद्धया यानि संख्यास्थानानि तत् समस्तं मध्यममसंख्येयासङ्खधेयकं बोद्धव्यं, यावदुत्कृष्टमसंख्येयासं- #ख्येयकं न प्राप्नोति, कियत पुनस्तदुत्कृष्टमसंख्ययासंख्येयकं स्यादी ,उच्यते, जघन्ये असंख्येयासंग्व्येयके यावन्ति रूपाणि लभ्यन्ते तावत् संख्याः प्रत्येकं जघन्या असङ्खयेयाऽसङ्खयेयात्मका एव राशयो व्यवस्थाप्यन्ते, एते च राशयः पूर्ववत् परस्परं गुणिता यं राशिमुत्पादयन्ति स एकेन रूपेण हीन उत्कृष्टमसंख्येयासंख्येयकं भवति, उदाहरणं चात्राप्युत्कृष्टपरीतासंख्येयकोक्तानुसारेण वाच्यम् , समान ॥१२४॥ न्यायत्वात् , केवलं तत्राभ्यस्तराशिभ्योन्त्र महान्तो राशयः परस्परं गुणनीया इत्येतावन्मात्रकृतो विशेषः, यदा च तदपि रूप
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy