________________
२%
जीवसमासे
प्रथमा एकसर्षपरूपा महाशलाका प्रक्षिप्यते, ततः शलाकापल्य उत्पाट्य तथैव द्वीपसमुद्रेषु प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिहैमीवृत्ती.
शलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव द्वीपादिषु क्षिप्यते, शलाकापल्ये च शलाका निक्षिप्यते, एवमनवस्थित-12 नवविध | पल्योत्पाटनक्षेपणक्रमेण शलाकापल्यः शलाकानां भरणीयः शलाकापल्योद्धरणविकिरणक्रमण तु प्रतिशलाकापल्यः प्रति
संख्येय ॥१२३॥ | शलाकाभिः पूरणीयः प्रतिशलाकापल्योत्पाटनप्रक्षेपणाभ्यां तु महाशलाकापल्यो महाशलाकाभिः पूरयितव्यः, यदा तु चत्वारोऽ
निरूपणं | पीत्थं परिपूर्णा भवन्ति तदोत्कृष्ट संख्येयकं रूपाधिकं भवति, इदमत्र तात्पर्य-यथोक्तेषु चतुर्पु पल्येषु भूतेषु ये सर्पपाः ये चानव
स्थितपल्यशलाकापल्यप्रतिशलाकापल्योत्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्राः सर्पषैाप्तास्तावत्संख्यमुत्कृष्टं संख्येकमेकेन सर्षपरूपेण | समधिकं भवति, इदं च तावदुत्कृष्टं संख्येयकं, जघन्यं तु द्वौ, न त्वेकः, संख्याव्यवहारे तस्यानधिकृतत्वादिति, जघन्योत्कृष्टयोस्त्व|न्तराले यानि व्यादीनि संख्यास्थानानि तत् सर्व मध्यमं संख्यातं, आगमे च यत्र क्वचिदविशेषितं संख्येयकग्रहणं करोति तत्र | सर्वत्र मध्यममेव द्रष्टव्यमिति अभिहितं जघन्यमध्यमोत्कृष्टभेदभिन्न त्रिविधं संख्येयकं, अथ नवविधमसंख्येयकं प्रागुद्दिष्टं निरूप्यतेभइहोत्कृष्टसंख्येयकं येनैकेन सर्षपरूपेणाधिकमुक्तं तद्यदा तस्मिन्नेवोत्कृष्टसंख्यातराशौ प्रक्षिप्यते तदा जघन्यं परीतासंख्येयक
| भवति, ततः परमस्यैव परीतासंख्येयकस्य मध्यमानि स्थानानि भवन्ति तावद्यावदिदमेवोत्कृष्ट परीतासंख्येयकं, कियत्प्रमाणं है पुनरुत्कृष्टं परीतासंख्यातमिति चेद्, उच्यते, अस्मिन्नेव जघन्यपरीतासंख्येयके यावन्ति रूपाणि भवन्ति तावत्संख्याः प्रत्येकं जघन्य-1# | परीतासंख्येयकस्वरूपा राशयो व्यस्थाप्यन्ते, ततः परस्परं गुण्यते, तैश्च परस्परं गुणितैर्यो राशिर्भवति स एकेन रूपेण हीन उत्कृष्टं परीतासंख्येयकं भवति, अत्र विनेयानां सुखप्रतिपत्त्यर्थमुदाहरणमात्रं किञ्चिदुच्यते, तत्र जघन्यपरीतासंख्येयके सद्भावतोऽसंख्येय
RCALCCA
॥१२
%