SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जीवसमासे स्थितपल्यः सर्षपभृतः परिकल्प्यते, पुनः पुनः सोऽप्युत्क्षिप्य एकैकसर्षपप्रक्षेपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्ये च8| नवविध हैमीवृत्तौ. तृतीयशलाका प्रक्षिप्यते, ते च सर्षपाः प्रक्षिप्यमाणाः यत्र द्वीपे समुद्रे वा निष्ठिताः तत्पर्यन्तः पूर्वेण सह वृहत्तमोऽनवस्थितपल्यस्त संख्येय थैव सर्षपभृतः परिकल्प्यते पुनः सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते शलाकापल्ये च चतुर्थी शलाका क्षिप्यते, एवं | निरूपणं ॥१२२॥ ४ यथोत्तरं वृद्धस्यानवस्थितपल्यस्य भरणरिक्तीकरणक्रमेण तावद्वाच्यं यावदेकैकशलाकाप्रक्षेपेण शलाकापल्यो वेदिकाया उपर्यपि सप्रशिखो नियतेऽपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यः सर्षपभृतोऽपि नोत्क्षिप्यते किन्तु शलाकापल्य एवोध्रियते, | अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात् परत एकैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, यदा च निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे | तृतीये पल्ये एकसषपरूपा प्रथमा प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितं समुद्धृत्य शलाकापल्यनिष्ठास्थानातू परतस्तेनैव क्रमेण प्रक्षिप्यते, निष्ठिते च तस्मिन् शलाकापल्ये शलाका क्षिप्यते, इत्थं पुनरप्यनवस्थितपल्यपूरणरेचनक्रमेण पूर्ववत् शलाकापल्यः | शलाकानां भ्रियते, ततोऽनवस्थितशलाकापल्ययो तयोः शलाकापल्य एवोत्पाट्य अनवस्थितपल्यनिष्ठास्थानात् परतः पूर्वोक्तक्रमेणैव प्रक्षिप्यते, ततः प्रतिशलाकापल्ये द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्यं समुधृत्य शलाकापल्यनिष्ठास्थानात् परतस्तेनैव क्रमेण प्रक्षिप्यते, शलाकापल्ये च शलाका क्षिप्यते, एवमनवस्थितपल्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यः पुनरपि IN शलाकाभिः पूर्यते, शलाकापल्यस्य चोत्पाटननिक्षेपणाभ्यां पूर्वोक्तन्यायेन प्रतिशलाकापल्ये तावत् प्रतिशलाकाः प्रक्षिप्यन्ते । यावत् स ताभिः सपशिखः पूर्यते, यदा चैवं प्रतिशलाकापल्यः शलाकापल्योऽनवस्थितपल्यश्चेत्येते त्रयोऽपि सप्रशिखाः पूरिता | भवन्ति तदा प्रतिशलाकापल्य एवोत्पाट्य द्वीपसमुद्रेषु तथैवैकैकसर्षपक्रमेण प्रक्षिप्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये 4%AA%E AKASHANCHAR RESISTER
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy