________________
नवविधं संख्येयं.
जीवसमासे है अस्या गाथाया भावार्थ व्याख्याय पश्चादक्षरार्थ व्याख्यास्यामः, तत्र चेह संख्येयकादिस्वरूपज्ञापनप्रस्तावे जम्बूद्वीपहैमीवृत्ती. | समान आयामविष्कम्भाभ्यां प्रत्येकं योजनलक्षप्रमाणो योजनसहस्रमवगाढो, रत्नप्रभापृथिव्या योजनसहस्रमानं प्रथमं रत्नकाण्ड
भित्त्वा द्वितीये वज्रकाण्डे प्रतिष्ठित इत्यर्थः, वृत्ताकारत्वाच्च भ्रमित्या “ परिही तिलक्ख सोलससहस्स दो य सय सत्तवीसहिया । ॥१२१ ॥
कोस तिय अट्ठवीस धणु सय तेरंगुलद्धहियं ॥१॥" इति गाथाप्रतिपादितप्रमाणयुक्तो धान्यपल्यवत्पल्यः कल्प्यते, स चैबप्रमाणः पल्यो बुद्धिकल्पनया सर्षपाणां तावद् भ्रियते यावज्जम्बूद्वीपवेदिकाया उपर्यपि सम्पूर्णशिखः सम्पद्यते, ते चैतद्गताः सर्पपाः किलासकल्पनया देवादिना केनचिदुत्क्षिप्यैको द्वीपे एकः समुद्र इत्येवं क्रमेण सर्वेऽपि प्रक्षिप्यन्ते, एवं चैते प्रक्षिप्यमाणा यत्र कापि द्वीपे समुद्रे वा निष्ठां यान्ति एतावत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्यनामा पल्यः परिकल्प्यते, स च सर्पपाणां वेदिकाया उपर्यपि सप्रशिखः पूर्यते, शलाकापल्ये चैकसर्पपरूपा शलाका प्रक्षिप्यते, कोऽयं शलाकापल्य इति चेदुच्यते, सहस्रयोजनावगाढो योजनलक्षविस्तरः सातिरेकयोजनलक्षत्रयपरिधिपरिकलितो जम्बूद्वीपवेदिकापर्यन्तोच्चस्त्वसमन्वितः पल्यो यादृशः पूर्व परिकल्पितस्तादृशस्त्रयोऽन्येऽपि परिकल्प्यन्ते इति सर्वेऽप्यमी चत्वारः पल्या भवन्ति, तत्र प्रथमः क्रमेण परिवर्द्धमानमूर्त्तित्वादवस्थितरूपाभावादनवस्थित पल्य उच्यते, द्वितीयस्तु शलाकाभिर्मियमाणत्वाच्छलाकापल्यो व्यपदिश्यते, तृतीयस्तु प्रतिशलाकाभिरापू|र्यमाणत्वात् प्रतिशलाकापल्य इष्यते, चतुर्थस्तु महाशलाकापूरणीयत्वान्महाशलाकापल्योऽभिधीयत इति, अथ प्रकृतमुच्यते, यः पूर्व
दि मनवस्थितपल्यः सर्षपाणां भृतो मुक्तः, तत्सर्पपा अपि पुनरुत्क्षिप्यन्ते, ततश्चैको द्वीपे एकश्च समुद्र इत्येवं प्रक्षिप्यमाणा यदा निष्ठां यान्ति तदा शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, सर्पपाश्च यत्र द्वीप समुद्रे वा निष्ठितास्तत्पर्यवसानः पूर्वेण सह वृहत्तरोऽनव
॥१२॥