________________
जीवसमासे हैमीवृत्ती.
॥१२०॥
संखेज्जमसंखेज्जं अनंतयं चैव गणणसंखाणं । संखेज्जं पुण तिविहं जहण्णयं मज्झिमुकोसं ॥ १३६ ॥ वक्ष्यमाणस्वरूपं सङ्ख्येयकमसङ्ख्येयकमनन्तकं चेत्येव त्रिविधं गणनसङ्ख्यानं, सङ्ख्येयकं पुनरपि त्रिविधं जघन्यमध्यमोत्कृष्टभेदादिति गाथार्थः ।। १३६ ।। असङ्घयेयकं पुनर्नवविधमिति दर्शयन्नाह
तिविहमसंखेज्जं पुण परितजुत्तं असंखयासंखं । एकैकं पुण तिविहं जहण्णयं मज्झिमुक्कोसं ॥ १३७ ॥ असङ्ख्यकं त्रिधा, तद्यथा- परीतासङ्घयेयकं युक्तासङ्घ येयकं असङ्ख्ययासंख्येयकं चेति, पुनः प्रत्येकमेकैकं जघन्यमध्यमोत्कृष्टभेदात् त्रिधत्येवं नवविधमसंख्येयकमिति गाथार्थः ॥ १३७ ॥ अनन्तकं त्वष्टविधमित्यादर्शयन्नाह
तिविहमणतंपि तहा परिन्त जुत्तं अणतयाणतं । एक्केकंपिय तिविहं जहणणयं मज्झिमुक्कासं ॥ १३८ ॥
-
तथाऽनन्तकमपि त्रिविधं तद्यथा- परीतानन्तकं युक्तानन्तकं अनन्तानन्तकं चेति जघन्यमध्यमोत्कृष्टभेदात् पुनरेकैकं त्रिविधमित्येवं सूत्रेऽविशेषोक्तावपि व्याख्यानतो विशेषप्रतिपत्तेराद्यभेदद्वय एव प्रत्येक त्रैविध्यमवगन्तव्यं, तृतीयभेदस्तु द्विप्रकार एव, तद्यथा - जघन्यमनन्तानन्तकं मध्यमं चानन्तानन्तकमिति, उत्कृष्टं त्वनन्तानन्तकं क्वचिदपि वस्तुनि न सम्भवतीति न तत् प्ररूप्यते, अतोऽनन्तकमष्टविधमिति गाथार्थः ॥ १३८ ॥ तदेवं सामान्यमात्रेण व्याख्यातं संख्येयकादिस्वरूपमथ विशेषतः सभावार्थ तद् व्याख्यातुमाह
जंबुद्दवो सरिसवपुण्णो ससलागपडिमहसलागाहिं । जावइअं पडिपूरे तान्नइअं होह संखेज्जं ॥ १३९ ॥
गणन संख्याने संख्येयादि
भेदाः
॥१२०॥