SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती. ॥ ११९ ॥ संखाणं पुण दुविहं सुयसंखाणं च गणणसंखाणं । अक्खरपयमाईयं कालियमुक्का (३०००) लियं च सुयं ॥ १३५ ॥ संख्यानं पुनरपि द्विधा, श्रुतसंख्यानं गणनसंख्यानं च तत्र श्रुतसंख्यानमक्षरपदादिकं, आदिशब्दात्पर्यायसङ्घातपादगाथादिपरिग्रहः, तदुक्तं-" सुयपरिमाणसंखा अणेगविहा पण्णत्ता, तंजहा- पज्जवसंखा अक्खरसंखा संघायसंखा पयसंखा पायसंखा गाहासंखा सिलोगसंखा वेढयसंखा निज्जुत्तिसंखा अणुओगदारसंखा उद्देससंखा अज्झयणसंखा सुयखंधसंखा अंगसंखत्ति " तत्र पर्यवाः पर्याया धर्मा इत्यनर्थान्तरं तद्रूपा च संख्या श्रुतस्यानन्ता द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादि| वस्तुनः प्रत्येकमनन्तपर्यायत्वाद्, एवमन्यत्रापि संख्यायोजना भावनीया, नवरं संख्येयानि श्रुते अकारककारादीन्यक्षराणि ह्याद्यक्षरसंयोगरूपाः संख्येयाः सङ्घाताः सुप्तिङन्तानि समयप्रसिद्धानि वा संख्येयानि पदानि गाथादिचतुर्थांशरूपाः संख्येयाः पादाः | संख्येया गाथाः संख्येयाश्च श्लोकाः प्रतीता एव, छन्दोविशेषरूपाःसंख्येया वेष्टकाः निक्षेपनिर्युक्त्युपोद्घातनिर्युक्तिसूत्रस्पर्शिकनिर्युक्ति| रूपा त्रिविधा च निर्युक्तिः व्याख्यानोपायभूतानि सत्पदप्ररूपणादीन्युपक्रमादीनि वा संख्येयान्यनुयोगद्वाराणि, संख्येया उद्देशाः | संख्येयान्यध्ययनानि संख्येयाः श्रुतस्कन्धाः संख्येयान्याचारादीन्यङ्गानि । किं पुनस्तच्छ्रुतं यत्रेयमक्षरपदादिका संख्येत्याह-कालिकम्| आचारोत्तराध्ययनादिकमुत्कालिकं च दशवैकालिकावश्यकजीवाभिगमप्रज्ञापनादृष्टिवादादिकं तच्छ्रुतं यत्रेयमक्षरपदादिका प्रत्येकं संख्येति, नवरमुत्कालिके अङ्गं एकमेव दृष्टिवादलक्षणं नान्यदिति गाथार्थः ॥ १३५ ॥ उक्तं श्रुतसंख्यानमथ गणन|संख्यानमुपदर्शयन्नाह— भावे नोगुणे श्रुत संख्यानं - ॥ ११९॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy