________________
जीवसमासे हैमीवृत्तौ .
॥ ११८ ॥
एएण खेत्तसागरउवमाणेणं हवेज्ज नायव्वं । पुढविद्गअगणिमारुयहरियतसाणं च परिमाणं ॥ १३३ ॥ • एतेन सूक्ष्मक्षेत्र सागरोपमस्योपलक्षणत्वात् सूक्ष्मक्षेत्रपल्योपमस्य चोपमानेन प्रमाणेन ज्ञातव्यं किमित्याह- 'परिमाणं' सङ्ख्यानं केषां ? - पृथिव्युदकाशिवायुवनस्पतित्रसजीवानाम्, एतच्च किञ्चिदिहैव वक्ष्यते, किञ्चित्तु दृष्टिवाद्गम्यमिति गाथार्थः ॥ १३३ ॥ तदेवं व्याख्यातं " पलिओचमं च तिविहं उद्धारऽद्धं चे " त्यादि, तद्व्याख्याने चोद्धारपल्योपमनिरूपणप्रस्तावे प्रोक्ताः सर्वेऽपि सर्वाद्धापर्यन्ताः कालविभागास्तद्भणने च व्याख्यातं सभावार्थ ' कालविभागो य होइणेगविहो ' इत्यादि, तद्व्याख्याने च व्याख्यातं प्रमाणद्वारस्य तृतीयभेदस्वरूपं कालप्रमाणमथ तच्चतुर्थभेदस्वरूपं भावप्रमाणं निरूपयितुमाह
गुणनोगुणनिष्पन्नं गुणनिप्फन्नं तु वन्नमाईयं । नोगुणनिष्पन्नं पुण संखाणं नो य संखाणं ॥ १३४ ॥
भवनं भावो वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्व, प्रमितिः प्रमीयतेऽनेन प्रमीयते वा स इति प्रमाणं, भाव एव प्रमाणं भावप्रमाणं, तच्च द्विविधं - गुणनिष्पन्नं नोगुणनिष्पन्नं च, गुणस्वरूपं नोगुणस्वरूपं चेत्यर्थः, तत्र गुणा रूपरसगन्धस्पर्शसंस्थानरूपास्तत्स्वरूपमेकं भावप्रमाणं, ते हि वस्तुपरिणामत्वाद् भावास्तैश्च कृत्वा वस्तु प्रमीयते परिच्छिद्यते एतेऽपि वा स्वस्वरूपेण प्रमीयन्तेपरिच्छिद्यन्त इत्यमीषां प्रमाणता, एवमन्यत्रापि भावप्रमाणता सर्वत्राभ्युद्या, नोगुणस्तु-गुणनिषेधरूपस्तत्स्वरूपं तु भावप्रमाणं द्वितीयं इदं पुनरपि द्विधा - संख्यानं - संख्यास्वरूपं नोसंख्यानं च तनिषेधस्वरूपमिति गाथार्थः ॥ १३४ ॥ संख्यानं पुनर्द्विधेति दर्शयन्नाह -
क्षेत्रपल्यादिप्रयोजनं
॥११८॥