________________
जीवसमासेला
हैमीवृत्ती.
ऽसंख्यातगुणास्तत्रैवास्पृष्टा अपि विद्यन्ते, पश्चादुपर्यास्फालितायःकीलकनिर्भिद्यान्तःप्रविष्टवृक्षमूलाधवकाशान्यथाऽनुपपचेः, एवमत्रापि सूक्ष्मवालाग्रखण्डनिचितेऽपि पल्ये तत्स्पृष्टेभ्यस्तदस्पृष्टा नभःप्रदेशाः सन्त्येवासङ्खयेयगुणाः, अत एवानन्तरोक्तप्रकारेणा-12 | भिहितसूक्ष्मक्षेत्रपल्योपमादिदमसङ्खथातगुणं, इदमेव चाद्यकालीनसिद्धान्तेऽधिक्रियते, आह-यद्येवं पल्यस्य सूक्ष्मवालाग्रखण्डपूरणेन
क्षेत्रफ्ल्या॥११७॥
दिप्रयोजनं दकिं प्रयोजनं? यदा हि तत्स्पृष्टास्तदस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते तदित्थमेवाभिधातुमुचित-तत्र पल्ये ये क्षेत्रप्रदेशास्तेषां प्रतिसमय
मेकैकापहारे यः कालस्तदात्मकं सूक्ष्मक्षेत्रपल्योपममिति, किं वालाग्रखण्डपूरणेन?, नैतदेवं, तत्पूरणं विना प्रथमप्रकारोक्तसूक्ष्मक्षेत्रप४ल्योपमस्य प्ररूपयितुमशक्यत्वादिति, तेनापि किं प्रयोजनं. द्वितीयप्रकारस्यवहाधिकृतत्वादितिचेत् सत्यं, किन्तु प्रस्तुतपल्योपमेन
दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचित सूक्ष्मवालाग्रखण्डस्पृष्टैरेव नभःप्रदेशैर्मीयन्ते, कानिचित्तु तत्स्पृष्टास्पृष्टैरित्येवं प्रथमप्रकारस्यापि दृष्टिवादोक्तद्रव्यमानापयोगित्वाद्वालाग्रखण्डपूरणमपि नासंगतमिति गाथार्थः ॥१३१ ॥ उक्तं बादरं सूक्ष्मं च क्षेत्रपल्योपममिदानीं तत्प्रमाणक्रमनिष्पन्न क्षेत्रसागरोपममाह
एएसिं पल्लाणं कोडाकोडी हवज्ज दमगुणिया ।तं सागरोवमस्स उ एकस्स भवे परीमाणं ॥ १३२॥ । बादरक्षेत्रपल्योपमानां दशभिः कोटीकोटिभिर्बादरं क्षेत्रसागरोपमं सूक्ष्मक्षेत्रपल्योपमानां तु दशभिः कोटीकोटिभिः सूक्ष्म | क्षेत्रसागरोपममिति तात्पर्यार्थोऽक्षरार्थस्तु पूर्ववदेवेति गाथार्थः ॥ १३२ ॥ अत्रापि बादरे क्षेत्रपल्योपमसागरोपमे निष्प्रयोजने अपि
॥११७॥ पूर्वोक्तकारणादुपन्यस्ते, सूक्ष्माभ्यां त्वाभ्यामस्ति प्रयोजन, तदुपदर्शयन्नाह
MUSHRESOR
म RCE