SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्तौ . ॥११६॥ क्रियमाणे यावान् कालो लगति तदात्मकं यथाक्रममेव बादरं सूक्ष्मं च क्षेत्रपल्योपमं भवति, तच्चैकैकं प्रत्येकमसंख्येयोत्सर्पिण्यात्मकं मन्तव्यं, इदमत्र हृदयं - बादरवालाग्रपूरिते पल्ये एकैकवालाग्रेण यदवगाढमाकाशं तत्र प्रत्येकमसङ्ख्येयाः क्षेत्रप्रदेशाः संति, बालाग्राणां वादरत्वान्नभः प्रदेशानां त्वतिसूक्ष्मत्वादेकैकस्य वालाग्रस्य प्रत्येकमसंख्येयेष्वेव क्षेत्रप्रदेशेष्ववगाहस्य घटनादिति भावः, एतेषां सर्वेषामपि सर्ववालाग्रावगाढक्षेत्रप्रदेशानां प्रतिसमयमेकैकापहारे यः कालो भवति तदात्मकं बादरक्षेत्रपल्योपमं द्रष्टव्यं, एतच्चासंख्येयोत्सर्पिण्यवसर्पिणीमानं, यत एकैकवालाग्रावगाढक्षेत्र प्रदेशानामपि प्रतिसमयमेकैकापहारे " अंगुल असंखभागे ओसप्पिणिओ असंखेजा " इति वचनादसंख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति, किं पुनः सर्ववाला ग्रावगाढक्षेत्र प्रदेशापहार इति, . असंख्येयखण्डीकृतसूक्ष्मवालाग्रपूरिते तु पल्ये एकैकसूक्ष्मवालाग्रखण्डेन यदवगाढमाकाशं तत्रापि प्रत्येकम संख्येयाः प्रदेशा विद्यंत एव, सूक्ष्मस्यापि वालाग्रखण्डस्य नभः प्रदेशापेक्षया स्थूलत्वाद् असंख्येयास्तत्प्रदेशानन्तरेणावगाहस्यासम्भवादिति, एतेषां च सर्वेषां सर्ववालाग्रखण्डावगाढक्षेत्र प्रदेशानां प्रतिसमयमेकैकापहारे यः कालस्तदात्मकं सूक्ष्मक्षेत्रपल्योपममिति ज्ञातव्यम्, इदमप्यसंख्येयोत्सर्पिण्यवसप्पणीमानमेव केवलं पूर्वस्मादसङ्ख्येयगुणं, वालाग्राणामसंख्यातगुणत्वादिति, अथवा ये तत्र पल्येऽसङ्ख्येयखण्डी - कृतवालाग्रैः स्पृष्टा अस्पृष्टा चाकाशप्रदेशास्ते सर्वेऽपीह गृह्यन्ते तेषां च प्रतिसमयमेकैकापहारे यः कालस्तदात्मकं सूक्ष्मं क्षेत्रपल्योपममवगन्तव्यं, आह- ननु सूक्ष्मखण्डीकृतवालाग्रैर्निरन्तरं पूरिते पल्ये किमद्यापि केचित्तैरस्पृष्टा नभः प्रदेशाः सन्ति येनैवं द्वितीयमपि व्याख्यानं विधीयते, अत्रोच्यते, सूक्ष्मवालाग्रखण्ड स्पृष्टनभः प्रदेशेभ्यो विद्यन्ते ते तत्रास्पृष्टा असङ्ख्यातगुणाः, शिलास्तम्भकपाटपर्वतादयो द्यर्थाः स्वाक्रान्तमाकाशं व्याप्य स्थिता छद्मस्थलक्ष्यन्ते अथ च वाक्रान्तक्षेत्रस्य ये प्रदेशास्तैः स्पृष्टास्तभ्यो क्षेत्रपल्यसागरोपमे ॥११६ ॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy