SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती. ॥११४॥ दस सागरोत्रमाणं पुन्नाओ हुंति कोडिकोडीओ । ओसप्पिणीपमाणं तं चेवुस्सप्पिणीएवि ॥ १२८ ॥ उस्सप्पिणी अणता पोग्गलपरियहओ मुणेयव्वो । तेऽणंता तीयऽद्धा अणागयद्धा अनंतगुणा ॥ १२९ ॥ सूक्ष्माद्धासागरोपमाणां सम्पूर्णा दश कोटी कोट्यो भवन्ति, किमित्याह-प्रमाणं, कस्या ? - अरकषट्कोपेतकालविशेषरूपाया अवसपिण्याः, सूक्ष्माद्धासागरोपमाणां दशभिः कोटाकोटिभिर्निष्पन्नोऽवसर्पिणीलक्षणः कालविशेषो मन्तव्य इत्यर्थः तथा अरकपट्कोपेताया उत्सर्पिण्या अप्येतदेव प्रमाणमिति । " उस्सप्पिणी " त्यादि, अवसर्पिण्या उपलक्षणत्वादेताश्च यथोक्तप्रमाणा अवसर्पिण्युत्सर्पिण्योऽनन्ताः समुदिताः पुद्गलपरावर्तो मुणितव्यः, ते च पुद्गलपरावर्ता अनंता अतीताद्धा, अनन्तपुद्गलपरावर्तात्मकोऽतीतः काल इत्यर्थः, अतीताद्धापेक्षया चानन्तगुणाऽनागताद्धा, भविष्यत्काल इत्यर्थः, वर्तमानैकसमयरूपा वर्तमानाद्धाऽप्यस्ति सा च ' कालो परमनिरुद्धो अविभागी तं तु जाण समउ ' त्ति समयप्ररूपणायां प्रोक्तैव द्रष्टव्या, सामान्येन सर्वकालरूपा सर्वाद्धाऽपि पूर्व “ कालोत्ति य एगविहो " इति सामान्यकालभणनेन भणितैवावगन्तव्येति गाथार्थः ॥ १२९ ॥ तदेवं प्रोक्ताः सर्वेऽपि कालविशेषाः, प्रकृतमुच्यते तत्र बादराद्धापल्योपमसागरोपमे निष्प्रयोजने अपि पूर्वोक्तकारणात् उपन्यस्ते, सूक्ष्माद्धापल्योपमसागरोपमयोस्तु प्रयोजनमस्ति तदुपदर्शनार्थमाह- सुहुमेण य अद्धासागरस्स माणेण सव्वजीवाणं । कम्मठिई कार्यठिई भावट्टिई यावि नायव्वा ॥१३०॥ सूक्ष्माद्धासागरोपमस्य उपलक्षणत्वादद्धापल्योपमस्य च मानेन, सूक्ष्माद्धापल्योपमसागरोपमयोः प्रमाणेनेति तात्पर्यार्थः, उत्सर्पिण्यादिः कालः ॥११४॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy