SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती. रोपमे. ॥११३॥ तत्रैव पूर्वोक्तस्वरूपे पल्ये सहजबादरवालाग्रपूरिते यदा प्रातवर्षशतमेकैक वालाग्रमपहियते तदा सर्वस्मिन्नपि तदपहारे यावान् अदापल्योकालो भवति तदेव बादरमद्धापल्योपमं विज्ञेयम्, तत्र च बादरेद्धापल्योपमे संख्यया वर्षकोट्यो भवंतीति सुबोधमेवेति गाथार्थःपम साग॥ १२५ ॥ सूक्ष्ममद्धापल्योपममाह वाससए वाससए एकेके अवहियम्मि सुहमम्मि । सुहुमे अद्धापल्ले हवंति वासा असंखेज्जा ॥ १२६॥ तस्मादेवासंख्येयखण्डीकृतसूक्ष्मवालाग्रपरिपूर्णपल्यात् प्रतिवर्षशतमेकैकस्मिन् सूक्ष्मे वालाग्रखण्डेऽपहियमाणे यावान्कालः सम्पद्यते तत् सूक्ष्ममद्धापल्यापमं बोद्धव्यम्, तत्र च सूक्ष्मेद्धापल्योपमेऽसङ्खयेयानि वर्षाणि भवन्ति, असंखयेया वर्षकोटयो भवन्तीत्यर्थः ॥ १२६ ॥ उक्तं बादरं सूक्ष्मं चाद्धापल्योपममिदानीमेतन्मानप्रभवमेव बादरं सूक्ष्मं चाद्धासागरोपमं विवक्षुराह एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । तं सागरोवमस्स उ परिमाणं हवइ एकस्स ॥१२७ ॥ एतयोः पूर्वोक्तवादरसूक्ष्मभेदाभिन्नयोरद्धापल्योपमयोर्या या प्रत्येक कोटाकोटीर्दशभिर्गुणिता दशकोटीकोट्य इत्यर्थः तदेतत् प्रत्येकमेकस्य बादराद्धासागरोपमस्य सूक्ष्माद्धासागरोपमस्य च प्रमाणं भवेत्, भावार्थस्तूद्धारसागरोपमवदिति गाथार्थः ॥ १२७ ॥ अत्राह-ननु समयावलिकादिकालभेदा इह प्रतिपादयितुं प्रस्तुताः, ते च भवद्भिः सागरोपमपर्यन्ता एवाद्यापि निर्दिष्टाः, सिद्धान्ते | तु "सायर उस्तप्पिणि परियहा" इत्यादिवचनादेव उत्सपिण्यादयोऽपि तद्भेदाः श्रूयन्त एव, तेऽत्र किमिति नाभिधीयन्त इत्याशङ्कय तानप्युक्तशेषानवसर्पिण्यादीन कालविशेषान् सूक्ष्माद्धासागरोपममाननिष्पाद्यत्वात् एतद्विचारप्रस्ताव एव प्रतिपादयन्नाह ॥१
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy