________________
जीवसमासे हैमीवृत्तो.
॥११२॥
A5%ESSASSACRORG
एतयोः पूर्वोक्तयो|दरसूक्ष्मभेदभिन्नयोरुद्धारपल्योपमयोर्या प्रत्येक कोटिकोटिर्दशभिर्गुणिता दश कोटीकोटय इत्यर्थस्तदेतत् 8 पल्योपम प्रत्येकमेकस्य बादरोद्धारसागरोपमस्य सूक्ष्मोद्धारसागरोपमस्य च परिमाणं भवेदिति, दशभिर्बादरोद्धारपल्यापमकोटीकोीटीभरेकं | |बादरोद्धारसागरोपमं भवति, दशभिश्च सूक्ष्मोद्धारपल्योपमकोटीकोटिभिरेकं सूक्ष्मोद्धारसागरोपमं भवतीत्यर्थः, तत्रातिमहत्त्व
| स्वरूपं साम्यात् सागरेण-समुद्रेणोपमीयत इति सागरोपमामति गाथार्थः ॥ १२३ ॥ इह बादरे प्ररूपिते सूक्ष्मप्ररूपणा क्रमनिष्पनत्वात् सुखकर्तव्या सुखावसेया च भवतीत्येतावन्मात्रेणैव बादरोद्धारपल्योपमसागरोपमयोः प्ररूपणा कृता, न पुनराम्यां सिद्धांते किंचित् प्रयोजनमस्ति, सूक्ष्माभ्यां त्वेताभ्यामागमे समस्त्येव प्रयोजनं तच्चोपदर्शयन्नाह___ जावइओ उद्धारो अड्डाइज्जाण सागराण भवे । तावइया खलु लोए हवंति दीवा समुद्दा य ॥ १२४ ॥
अर्द्धततीयप्रमाणानां व्याख्यानात सूक्ष्मोद्धारसागरोपमाणां यावानुद्धारो वालाग्रोद्धारसमयराशिरित्यर्थः, 'भवेत' जायेत ६ तावन्त एवं लोके द्वीपाः समुद्राश्च भवंति, इदमुक्तं भवति-साढ़े सूक्ष्मोद्धारसागरोपमद्वये सूक्ष्मोद्धारपल्यापमानां पंचविंशतिकोटी
कोटिरित्यर्थः, यावन्तो वालाग्रोद्धारविषयाः समया भवंति तावत्संख्यास्तिर्यग्लोके द्वीपसमुद्रा अपि सर्वे भवंतीत्यर्थः, इति
सूक्ष्मोद्धारपल्योपमसागरोपमयोर्कीपसमुद्रसंख्यानयनं प्रयोजनत्वेनोक्तं भवतीति गाथार्थः ॥ १२४ ॥ अथ क्रमप्राप्तमद्धापल्यापमं से निरूपयितुमाह
वाससए वाससए एकके बायरे अवहियम्मि । बायरअद्धापल्ले संखेज्जा वासकोडीओ ॥ १२५ ॥
AAAAABAR