________________
जीवसमासे एकेकमओ लोमं कटुमसंखेजखडमादिस्सं । समछेयाणंतपएसियाण पल्लं भरेज्जाहि ॥ १२१ ॥
पल्योपम हेमीवृत्ती.
सागरोपमा अतः सहजवालाग्रभृतपल्यादेकैकं लोम असंख्येयानि खण्डानि यत्र तदसंख्येयखण्डमदृश्यं, तावदसत्कल्पनया खण्ड्य- स्वरूप
ने यावददृश्यस्वरूपमसंख्येयखण्डरूपतामेकैकं वालाग्रं भजत इति भावः, एवं च कृते एकैकं खण्डं बादरपर्याप्तपृथिवीशरीरतुल्यं 8 ॥११॥
से भवतीति वृद्धाः,एवं कृत्वा ततः किं विधेयमित्यत्रोच्यते, ततोऽमीषां सर्वेषामपि समच्छेदानां परस्परतुल्यखण्डीकृताना प्रत्येक
चाद्याप्यनन्तप्रादेशिकानामनन्तपरमाण्वात्मकानां तमेव पल्यं विभृयाः-बुद्धथा परिपूर्ण कुर्यास्त्वमिति गाथार्थः ।। १२१ ॥ एवं च तस्मिन् भृते यत् कर्तव्यं तदाह
तत्तो समए समए एशेके अवहियम्मि जो कालो । संखेज्जवासकोडी सुहमे उद्धारपल्लम्मि ॥ १२२ ॥
ततः सूक्ष्मखण्डीकृतवालाग्रभृतपल्यात् प्रतिसमयमेकैकस्मिन् सूक्ष्मवालाग्रखण्डेऽपहियमाणे यावान् कालो लगति तत्प्रमाणं सूक्ष्ममुद्धारपल्यापमं भवतीति पूर्ववदत्रापि सम्बन्धः, कियान् पुनरसौ कालो भवतीति निवेद्यतामित्याह-सङ्खचेया वर्षकोट्यः, सूक्ष्म | उद्धारपल्योपमे भवन्तीति ज्ञातव्यं, वालाग्राणामिह प्रत्येकमसङ्खयेयखण्डात्मकत्वादेककस्यापि वालाग्रस्य सम्बन्धिना खंडानामपहारेऽसङ्खथेयसमयराशिप्राप्तेः सर्ववालाग्रखण्डापहारे भवन्त्येव सङ्ख्याता वर्षकोटयः, सूक्ष्मत्वमप्यस्य वालाग्राणां सूक्ष्मखण्डकरणाद् ॥११॥ भावनीयमिति गाथार्थः॥ १२२ ॥ तदेवमुक्तं बादरं सूक्ष्मं चोद्धारपल्योपमम्,अथ तत्प्रभवमेव सागरोपमं निरूपयितुमाह
एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । तं सागरोवमस्स उ एकस्स भवे. परीमाणं ॥१२३ ॥