________________
जीवसमासे हैमीवृत्तौ.
॥११०॥
यः पल्यः स इह पल्योपमविषये 'निर्दिष्टो' विज्ञेय इति तात्पर्यमिति गाथार्थः ॥ ११८ ॥ अथैष एव पल्यो यत्स्वरूपैर्वालायैः पूर्यते तदेतान्नरूपायितुमाह
गाहिय बेहिय तेहियाण उक्कोस सत्तरत्ताणं । सम्महं संनिचियं भरियं वालग्गकोडीणं ॥ ११९ ॥
एकेन अह्ना निर्वृत्ता एकाहिक्यो द्वाभ्यां त्रिभिश्वाहोभिर्निष्पन्ना द्वयाहिक्यस्त्र्याहिक्यश्च तासामेकाहिकीद्वयाहिकीत्र्याहिकीनामेवं चतुराहिकीनां यावदुत्कृष्टतः सप्तरात्रप्ररूढानां वालानां वाला एवातिसूक्ष्मत्वादग्रकोटय इवाग्रकोटयो वालाग्रकोटयस्वासां भृतोऽसौ पल्योऽत्राधिक्रियते, तत्र मुण्डिते शिरस्येकेनाह्ना या वालाग्रकोटय उत्तिष्टन्ति ता एकाहिक्थ उच्यन्ते द्वाभ्यां तु या उत्तिष्ठन्ति ता व्याहिक्यः त्रिभिस्तु व्याहिक्यः एवं यावत् सप्तरात्रप्ररूढाः सप्तरात्रिक्य इति कथं पुनस्तासां वालाग्रकोटीनां भृत इत्याह-- सम्मृष्टः- आकर्ण पूरितः सन्निचितः प्रचयविशेषानिविडीकृत इति गाथार्थः ॥ ११९ ॥ ततः किमित्याहततो समए समए एकेके अवहियम्मि जो कालो । संखेज्जा खलु समया बायरउद्धारपल्लमि ॥ १२० ॥
रतो यथेोक्तवालाग्रभृतपल्यात् प्रतिसमय मेकैकस्मिन् वालाग्रेऽपहियमाणे यावत्कालो लगति तद्वादरमुद्धारपल्योपममित्यावृत्त्या प्रथमान्ततयाऽप्यत्र सम्बध्यते, कियान् पुनरसौ काल इति कथ्यतामित्याह -- 'खल्व' वधारणे सङ्कथेया एव समया अस्मिन् बादरे उद्धारप ल्योपमे भवन्ति, नासङ्ख्येयाः, वालाग्राणामप्यत्र संख्यातत्वात्तेषां च प्रतिसमय मपहारे संख्येयस्यैव समयराशेर्भावादिति, बादरता चेह सूक्ष्मखण्डाकरणेन वालाग्राणां बादरत्वाद्भावनीयेति गाथार्थः ॥ १२० ॥ अथ क्रमप्राप्तमेव सूक्ष्ममुद्धारपल्योपममभिधित्सुराह
पल्योपम
सागरोपमस्वरूपं
॥११०॥