________________
जीवसमासे हैमीवृत्ती.
॥१०९ ॥
पलिओवमं च तिविहं उद्धारऽद्धं च खेत्तपलियं च । एकैकं पुण दुविहं बायरसृहुमं च नायव्वं ॥ ११७ ॥ धान्यपल्यवत्पल्योऽनन्तरमेवाभिधित्सितस्वरूपस्तेनोपमा यत्र तत्पल्योपमं तच्च त्रिधा, तद्यथा उद्धारपल्योपममद्घापल्योपर्म क्षेत्रपल्यापमं च तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्द्द्वारेण द्वीपसमुद्राणां वा उद्धरणम्- अपहरणमुद्धा रस्तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमं तथा ' अद्धे ' ति कालः स चेह व्याख्यानाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येकवर्षशतलक्षण उद्धारकालो गृह्यते अथवा प्रस्तुताद्धापल्योपमपरिच्छेद्यो नारकाद्यायुष्कलक्षणः कालोऽद्धा तत्प्रधानं तद्विषयं वा पल्थोपममद्धापल्योपमं तथा ' क्षेत्रं ' आकाशं तदुद्धारविषयं पल्योपमं क्षेत्रपल्यापमं, एषां च मध्ये पुनरकैकं द्विविधं वक्ष्यमाणस्वरूपं वादरं सूक्ष्मं चेति गाथार्थः ॥ ११७ ॥ कः पुनरसौ पल्यो येन पल्योपमे उपमा विधीयत इत्याह
जं जोयणावीच्छिणं तं तिउणं परिरएण सविसेसं । तं चैव य उब्विद्धं पल्लं पालिओवमं नाम ॥ ११८ ॥
'नाम' इति शिष्यस्य कोमलामन्त्रणे 'पलिओवममि' त्यत्र विभक्तिव्यत्ययात् सप्तमी 'पल्य' मित्यादावपि लिङ्गव्यत्ययात् पुंस्त्वं, ततश्च पल्योपमे-पल्या पमविषये धान्यपल्यवत्पल्यः प्रागुद्दिष्टः स विज्ञेयो, यः किमित्याह-यो विस्तीर्णः, कियदित्याह-योजनं, वृत्ताकारत्वादैर्येणापि योजनमिति द्रष्टव्यं तच्च योजनं त्रिगुणं सविशेषं 'पाररयेण' परिक्षेपेण. 'सर्व वृत्तं स्वविष्कम्भादायामतो वा त्रिगुणं साधिकं भवतीति वचनात् त्रीणि योजनानि साधिकानि भ्रमित्या यो भवतीत्यर्थः, 'उब्विद्धं' उच्चोऽपि तदेव योजनमित्यर्थः, दैर्घ्यविस्ताराभ्यां प्रत्येकं योजनप्रमाण उच्चत्वेनापि योजनमानो भ्रमित्या तु किञ्चिन्न्यूनषड्भागाधिकयोजन त्रयमानो
पल्योपम सागरोपम
स्वरूपं
॥१०९॥