________________
4CA
जीवसमासे
संपद्यते, ग्रंथांतरे तु पूर्वागं पूर्वागेन गुणितं पूर्वमित्युक्तं तत्राप्ययमेव वस्त्वर्थ इति न विरोधः, इह च योऽङ्कः सोऽनन्तरगाथायां हैमीवृत्तौ.
दर्शिष्यत इति २ इति गाथार्थः ॥ ११२ ॥ कियन्ति पुनः पूर्वोक्तेर्थेऽनुष्ठिते सत्येकस्मिन् पूर्वे वर्षाणि भवन्तीत्याह--
पुवस्स उ परिमाणं सयरिं खलु होति कोडिलक्खाओ । छप्पन्नं च सहस्सा योद्धव्वा वासकोडीणं ॥ ११३ ॥ ॥१०७॥
पाठसिद्धव, अङ्कस्त्वयम्-७०५६००००००००००, इदं च पूर्व चतुरशीत्या लक्षगुणितं नयुताङ्गं भवति ३, एतदपि चतुर& शीत्या लक्षैस्ताडितं नयुतं ४, तदपि चतुरशीतिलभैरेव समाहतं नलिनाङ्गं सम्पद्यते ५, एतदप्यनेनैव गुणकारेण गुणितं नलिनं
६, एवं सर्वत्र पूर्वः पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यं, तेषां चोत्त| रोत्तरप्रवर्द्धमानराशीनां यथाक्रममेतानि नामानि प्रतिपत्तव्यानि, तद्यथा-महानलिनाङ्गं ७, महानलिनं ८, पद्माङ्ग ९, पद्म १०,
कमलाङ्गं ११, कमलं १२, कुमुदाॉ १३, कुमुदं १४, त्रुटिताङ्गं १५, त्रुटित १६, अटटाङ्गं १७, अटटं १८, अववाङ्गं १९, अववं |२०, हुडुकाङ्गं २१, हुहुकं २२, अयुताङ्ग २३ अयुतं २४, प्रयुताङ्गं २५, प्रयुतं २६,शीर्षप्रहेलिकाङ्गं २७, एवमेते राशयश्चतुरशीति-|
लक्षस्वरूपेण गुणकारेण यथोत्तरं प्रवर्द्धमाना द्रष्टव्याः तावद्यावाददमेव शीर्षप्रहेलिकाङ्गं चतुरशीत्या लक्षगुणितं शीर्षप्रहेलिका भवति |२८, अस्याश्च शीर्षप्रहेलिकायाः स्वरूपमङ्कतोऽपि दर्श्यते, अङ्काश्चह चतुर्नवत्यधिकं शतं भवति, तद्यथा ७५८२६३२५३०७ |३०१०२४११५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६, अग्रे चत्वारिंशं शून्यशतं, यथोक्तान्येव शीर्षप्रहे-18 |लिकापर्यन्तराशिनामानि सूत्रकारोऽप्याह
HARSA
REENA
॥१०७॥