________________
जीवसमासे हैमीवृत्ती.
॥१०६॥
अनन्तरोक्तेन स्तोकलवादिक्रमेण त्रीणि सहस्राणि त्रिसप्तत्यधिकानि च सप्त शतानीत्येतावन्त उच्छ्वासा उपलक्षणत्वादुच्छवासनिःश्वासा एकैकस्य घटिकाद्वयलक्षणस्य मुहूर्तस्य भवन्ति, तथाहि - सप्तभिरुच्छ्वासनिःश्वासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, तवः सप्तभिः सप्त गुणिता इत्येकस्मिंलवे एकोनपञ्चाशदुच्छ्वासनिःश्वासाः सिद्धा भवन्ति, एकस्मिँश्च मुहूर्त्ते लवाः सप्तसप्ततिरुक्ता अत एकोनपञ्चाशत् सप्तसप्त्या गुण्यते, ततो जायते यथोक्तं मानं, तद्यथा ३७७३ इति गाथार्थः ॥ १०९ ॥ अथाहोरात्रस्य परतोऽपि ये कालविशेषास्तानुपदर्शयन्नाह
पन्नरस अहोरत्ता पक्खो पक्खा य दो भवे मासो । दो मासा उउसन्ना तिन्नि य रियवो अयणमेगं ॥ ११० ॥ दो अयणाई वरिसं तं दसगुणवडियं भवे कमसो । दस य सयं च सहस्सं दस य सहस्सा सयसहस्सं ॥ १११ वाससयसहस्सं पुण चुलसीइगुणं हवेज पुत्र्षंगं । पुव्वंगसयसहस्सं चुलसीइगुणं भवे पुत्र्वं ॥ ११२ ॥
पञ्चदशाहोरात्राणि पक्षः, द्वौ पक्षौ मासो भवेत्, द्वौ च मासौ ऋतुसंज्ञा, त्रयश्च ऋतवः षण्मासप्रमाणमेकमयनमिति गाथार्थः ॥ ११० ॥ द्वे अयने वर्ष, तच्च वर्षं दशलक्षणेन गुणकारेण यथोत्तरं क्रमेण वर्द्धितं भवेत् किमित्याह - दश १०, एतेऽपि दशभिर्गुणिता शतं भवेत् १००, तदपि दशभिर्गुणितं सहस्रं भवेत् १०००, इदमपि दशभिर्गुणितं दश सहस्राणि भवेयुः १००००, एतान्यपि दशभिर्गुणितानि शतसहस्रं लक्षं भवेदित्यर्थः १०००००, इति गाथार्थः ॥ १११ ॥ एतदपि वर्षाणां लक्षं पुनश्चतुरशी त्या गुणितं चतुरशीतिवर्षलक्षात्मकं पूर्वाङ्गं भवेदिति, अस्यांकन्यासः ८४०००००, एषामपि पूर्वागानां शतसहस्रं लक्षं व्यवस्थाप्य चतुरशीत्या गुणितं पूर्वं भवेद् इदमुक्तं भवति-पूर्वांगं लक्षेण गुण्यते तद्गुण च यो राशिभवति सोऽपि चतुरशीत्या गुण्यते ततः
श्वासादि शीर्षप्रहेलिकान्त
स्वरूपं.
॥१०६॥